पृष्ठम्:हितोपदेशः.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(८६) | [ हितोपदेशे- अजा सिंहप्रसादेन वने चरति निर्भयम् । राममासाद्य लङ्कायाँ लेभे राज्यं विभीषणः ॥ १२ ॥ अन्यच्च- महानप्यल्पतां याति निगुणे गुणविस्तरः। आधाराधेयभावेन गजेन्द्र इव दर्पणे ॥ १३ ॥ विशेषतश्च- व्यपदेशेऽपि सिद्धिः स्यादतिशक्ते नराधिपे । शशिनो व्यपदेशेन शशकाः सुखमासते ॥ १४ ॥ मयोक्तम्- कथमेतत् १' पक्षिण कथयन्ति- कथा ३, कदाचित् वर्षासु वृष्टेरभावात्तृषात गजयूथो यूथपतिमाह- नाथ । कोऽभ्युपायोऽस्माक जीवनाय १ नास्ति क्षुद्रजन्तूना निमज्जनस्थानम्, वय च निमज्जनस्थानाभावान्मृताह इव । कि कुर्मः क्व याम. १ ' ततो हस्तिराजो नातिदूर गत्वा निर्मल हद दर्शितवान् । ततो दिनेषु गच्छत्सु तत्तीरावस्थिता गजपादाहतिभिश्चूर्णिता क्षुद्रशशका । अनन्तर शिलीमुखो नाम शशक- श्चिन्तयनाह--* अनेन गजयूथेन पिपासाकुलितेन प्रत्यहमत्रागन्तव्यम्, अतो विनश्यत्यस्मत्कुलम् ।' ततो विजयो नाम वृद्धशशकोऽवदत्-' मा विषीदत, मयात्र प्रतीकार कर्तव्य ।' ततोऽसौ प्रतिज्ञाय चलित , गच्छता च तेना- लोचितम्-' कथ गजयूथसमीपे , स्थित्वा वक्तव्यम् १ यत - | स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजङ्गमः । पालयन्नपि भूपालः प्रहसन्नापि दुर्जनः ॥ १५ ॥ अतोऽह पर्वतशिखरमारुह्य यूथनाथ सवादयामि ।' तथानुष्ठिते यूथनाथ उवाच-* कस्त्वम् कुत समायात १' स ब्रूते-* शशकोऽहम्, भगवता चन्द्रेण भवदन्तिक प्रेषित ।' यूथपतिराह-* कार्यमुच्यताम् ।' विजयो ब्रूते-

  • उद्यतेष्वपि शस्त्रेषु दूतो वदति नान्यथा ।

सदैवविध्यभावेन यथार्थस्य हि वाचकः ॥ १६ ॥