पृष्ठम्:हितोपदेशः.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विग्रहः. 1 (८५) राजा विहस्याह- आत्मनश्च परेषां च यः समीक्ष्य बलाबलम् । अन्तरं नैव जानाति स तिरस्क्रियतेऽरिभिः ॥८॥ अन्यच्च- सुचिरं हि चरन्नित्यं क्षेत्रे सस्यमबुद्धिमान् । द्वीपिचर्मपरिच्छन्नो वाग्दोषाद्र्दभो हतः ॥ ९ ॥ बकः पृच्छति-* कथमेतत् १ ' राजा कथयति- | कथा २. अस्ति हस्तिनापुरे विलासो नाम रजकः । तस्य गर्दभोऽतिवहना- दुर्बल मुमूर्षुरिवाभवत् । ततस्तेन रजकेनासौ व्याघ्रचर्मणा प्रन्छाद्यारण्यसमीपे सस्यक्षेत्रे मोचित । ततो दुरात्तमवलोक्य व्याघ्रबुद्ध्या क्षेत्रपतय पलायन्ते । अथैकदा केनापि सस्यरक्षकेण धूसरकम्बलकृततनुत्राणेन वनु काण्ड सज्जीकृत्या- नतकायेनैकान्ते स्थितम् । त च दूरादृष्ट्वा गर्दभ पुष्टाङ्गो यथेष्टसस्यभक्षणजात- बलो गर्दभीयमिति मत्वोचै शब्द कुर्वाणस्तदभिमुख धावित । ततस्तन सस्य- रक्षकेण चीत्कारशब्दानिश्चित्य गर्दभोऽयमिति लीलयैव व्यापादित । अतोऽहं ब्रवीमि-* सुचिरं हि चरन्नित्यम्' इत्यादि । दीर्घमुखो ब्रूते-* तत पक्षिभिरुक्तम्-अरे पाप दुष्ट बक । अस्माक भूमौ चरनस्माक स्वामिनमधिक्षिपास तन्न क्षन्तव्यमिदानीम् इत्युक्त्वा सर्वे मा चञ्चुभिर्हत्वा सकोपा ऊचु* पश्य रे मूर्ख । स हसस्तव राजा सर्वथा मृदुः तस्य राज्याधिकारो नास्ति । यत एकान्तमृदु करतलस्थमप्यर्थ रक्षितुमक्षम । स कथ पृथिवीं शास्ति, राज्य वा तस्य किम् १ किन्तु त्वं च कूपमण्डूक । नेन तदाश्रयमुपदिशसि । शृणु- सेवितव्यो महावृक्षः फलच्छायासमान्वितः। यदि दैवात्फलं नास्ति च्छाया केन निवार्यते ॥ १० ॥ अन्यच्च- हीनसेवा न कर्तव्या कर्तव्यो महादाश्रयः । पयोऽपि शौण्डिकीहस्ते वारुणीत्यभिधीयते ॥ ११ ॥