पृष्ठम्:हितोपदेशः.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विग्रहः। पुनः कथारम्भकाले राजपुत्रा ऊचु'- ' आर्य ! राजपुत्रा वयम्-तद्विग्रह श्रोतु न कुतूहलमस्ति' । विष्णुशर्मणोक्तम्-- यदेव भवद्भयो रोचते कथयामि । विग्रह श्रयताम् । यस्यायमाद्य श्लोक - हँसैः सह मयूराणां विग्रह तुल्यावक्रमे । विश्वास्य वञ्चिता हंसाः काकैः स्थित्वारिमान्द॥ १ ॥ राजपुत्रा ऊचु - * कथमेतत् ' विष्णुशर्मा कथयति- अस्ति कर्पुरद्वीपे पद्मकेलिनामवेय सर । तत्र हिरण्यगर्भा नाम राज- हंसः प्रतिवसति । स च सर्वैर्जलचरपक्षिभिर्मलित्वा पक्षिराज्येऽभिषिक्त । यत - यदि न स्यान्नरपातः सम्यडू नेता ततः प्रजा । अकर्णधारा जलधौ विप्लवेतेह नौरिव ॥ २ ॥ अपर च- प्रजा संरक्षात नृपः सा वर्धयति पार्थिवम् । वर्धनाद्रक्षणं श्रेयस्तदभावे सदप्यसत् ॥ ३ ॥ एकदासौ राजहस सुविस्तीर्णकमलपर्यङ्के सुखासीन परिवारपरिवृतस्तिष्ठति । तत. कुतश्चिद्देशादागत्य दीर्घमुखो नाम बक प्रणम्योपविष्ट । राजोवाच- दीर्घ- मुख ! देशान्तरादागतोऽसि, वार्ता कथय । स ब्रूते- देव । अस्ति महत वार्ता, ता वक्तु सत्वरमागतोऽहम्, श्रूयताम्-अस्ति ज-बूद्वीपे विन्ध्यो नाम गिरिः, तत्र चित्रवणों नाम मयूरः पक्षिराजो निवसति । तस्यानुचरैश्चरद्भि पक्षिभिरह दग्धारण्यमध्ये चरनवलोकित पृष्टश्च * कस्त्वं कुतः समागतोऽसि १ । तदा मयोक्तम् “ कर्पुरद्वीपस्य राजचक्रवर्तिनो हिरण्यगर्भस्य राजहसस्यानुचरो- ऽहम् । कौतुकाद्देशान्तर द्रष्टुमागतोऽस्मि ' इति । एतच्छ्रुत्वा पक्षिभिरुक्तम्-

  • अनयोर्देशयो को देशो भद्रतरो राजा च १ ' मयोक्तम्- ‘ आ । किमेव

मुन्यते, महदन्तरम्, यत करद्वीपः स्वर्ग एव, राजहसश्च द्वितीय स्वर्ग- पति , कय वर्णयितुं शक्यते । अत्र मरुस्थले पतिता यूय कि कुरुथ, १ आग-