पृष्ठम्:हितोपदेशः.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुहद्धेदः.] ( ७७) तत कृच्छ्ण स्वामिवचनात्सा तत्रैव प्रसूता । एतत्सर्व श्रुत्वा समुद्रेणापि च्छिक्तिज्ञानाथ तदण्डान्यपहृतानि । ततष्टिट्टिभी शोकार्ता भर्तारमाह ' नाथ ! 5ष्टमापतितम् । तान्यण्डानि मे नष्टानि ।' टिट्टिभोवऽदत प्रिये ! मा भैषीः । त्युक्त्वा पक्षिणा मेलक कृत्वा पक्षिस्वामिनो गरुडस्य समीपं गत । तत्र गत्वा किलवृत्तान्त टिट्टिभेन भगवतो गरुडस्य पुरतो निवेदितम्- देव समुद्रेणार्ह वगृहावस्थितो विनापरावेनैव निगृहीन ।ततस्तद्वचनमाकर्त्य गरुत्मता प्रभुर्भ- वानारायण सृष्टिस्थितिप्रलयहेतुर्विज्ञप्त । स समुद्रमण्डदानायादिदेश । ततो गवदाज्ञा मौलौ निवाय समुद्रेण तान्यण्डानि टिट्टिमाय समर्पितानि । अतोऽह वीमि • अङ्गाङ्गिभावमज्ञात्वा ' इत्यादि ।। राजाह- कथमसौ ज्ञातव्यो द्रोहबुद्धिारति १' दमनको ब्रूते- यदासौ दिर्प शृङ्गाग्रप्रहरणाभिमुखश्चकितमिवागच्छति तदा ज्ञास्यति स्वामी' एवमुक्त्वा जीवकसमीप गत । तत्र गतश्च मन्दमन्दमुपसर्पन्विस्मितमिवात्मानमदर्शयत् । जीवकेन सादरमुक्तम्-* भद्र | कुशल ते ।' दमनको ब्रूते- अनुजीविना त’ कुशलम् १ यत -- संपत्तयः पराधीनाः सदा चित्तमनिवृतम् ।। स्वजीवितेऽप्यविश्वासस्तेषां ये राजसेवकाः ॥ १४९ ॥ अन्यच्च- कोऽर्थान्प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः श्रीभिः कस्य न खण्डितं भुवि मनः को वास्ति राज्ञां प्रियः। कः कालस्य भुजान्तरं न च गतः कोऽर्थी गतो गौरवं को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान् ॥ १५॥ सजीवकेनोक्तम्-* सखे | ब्रूहि किमेतत् १ । दमनक आह–' कि ब्रवीमि इन्दभाग्यः । पश्य- मज्जन्नपि पयोराश लब्ध्वा सर्पावलम्बनम् । न मुश्चात न चादत्ते तथा मुग्धोऽस्मि संप्रति ॥ १५१ ॥ यतः- एकत्र राजविश्वासो नश्यत्यन्यत्र बान्धवः । किं करोमि का गच्छामि पतितो दुःखसागरे ॥ १५२ -