पृष्ठम्:हितोपदेशः.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुद्धेदः, ] जीविते यस्य जीवन्ति विप्रा मित्राणि बान्धवाः । सफलं जीवितं तस्य आत्मार्थे को न जीवति ॥ ३३॥ अपि च- यस्मिञ्जीवति जीवन्ति बहवः स तु जीवतु । बकोऽपि किं न कुरुते चच्वा स्वोदरपूरणम् ॥ ३४॥ पश्य- पञ्चाभर्याति दासत्वं पुराणैः कोऽपि मानवः । कोऽपि लक्षैः कृती कोऽपि लभैरपि न लभ्यते ॥ ३५॥ यतः- मनुष्यजात तुल्यायां भृत्यत्वमतिगर्हितम् ।। प्रथमो यो न तत्रापि स किं जीवत्सु गण्यते ॥ ३६॥ तथा चोक्तम्- वाजिवारणलोहाना काष्ठपाषाणवाससाम् । नारीपुरुषतोयानामन्तर महदन्तरम् ॥ ३७॥ तथाहि-- स्वल्पस्नायुवसावशेषमालिनं निमसमप्यस्थिक श्वा लब्ध्वा परितोषमेति न भवेत्तस्य क्षुधः शान्तये । सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विप सर्वःकृच्छ्रगतोऽपि वाञ्छति जनःसत्त्वानुरूपं फलम्॥३८॥ अपर च सेव्यसेवकयोरन्तर पश्य- लांगूलचालनमधश्चरणावपातं भूमा नपत्य वदनोदरदर्शनं च । श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु धीरं विलोकयति चाटुशतैश्च भुङ्क्॥ ३९ ॥ कि च-- यज्जीव्यते क्षणमपि प्रथितं मनुष्यै- विज्ञानविक्रमयशोभिरभज्यमानम् ।