[ हितोपदेशे- चर्चा त्वया न कर्तव्या । त्वमेव कि न जानासि, यथा तस्याहर्निश गृहरक्षा करोमि, यतोऽय चिरानिवृतो ममोपयोग न जानाति । तेनावुनापि ममाहारदाने भन्दादरः । विना विधुरदर्शन स्वामिन उपजीविषु मन्दादरा भवन्ति ।' गर्दभो ब्रूते-‘शृणु रे बर्बर । याचते कार्यकाले यः स किं भृत्यः स किं सुहृत ।' कुक्कुरो ब्रूते- यो न सम्भावयेत्या कार्यकाले स किं प्रभुः॥ २९॥ किंच- आश्रितानां भृतौ स्वामसेवायां धर्मसेवने ।। पुत्रस्योत्पादने चैव न सन्ति प्रतिहस्तकाः ॥ ३० ॥ ततो गर्दभ सकोपमाह- अरे दुष्टमते ! पापीयास्त्वम्, यद्विपत्तौ स्वामिकायें उपेक्षा करोषि । भवतु तावत् । यथा स्वामी जागरिष्यति तन्मया कर्त- व्यम् । यत - पृष्ठतः सेवयेदर्क जठरेण हुताशनम् ।। स्वामिनं सर्वभावेन परलोकममायया ॥ ३१ ॥ इत्युक्त्वातीव चीत्कारशब्द कृतवान् । ततः स रजकस्तेन चीत्कारेण प्रबुद्धो निद्राभङ्गकोपादुत्थाय गर्दभ लगुडेन ताडयामास । ततस्तेन ताडनेन गर्दभः पञ्चत्वमगमत् । अतोऽह ब्रवीमि-' पराधिकारचचाम्' इत्यादि । पश्य । पशूनामन्वेषणमेवास्मन्नियोगः । स्वनियोगचर्चा क्रियताम् ।' (विमृश्य )
- कि त्वद्य तया चर्चया न प्रयोजनम् । यत आवयोर्भक्षितशेषाहार प्रचु-
रोऽस्ति ।' दमनक, सरोषमाह-कथमाहारार्थी भवान्केवल राजान सेवते १ एतद. युक्तमुक्त त्वथा । यत':- सुदामुपकारकारणात् । द्विषतामप्यपकारकारणात् । नृपसंश्रय इष्यते बुधै-- र्जठरं को न बिभर्ति केवलम् ॥ ३२ ॥