पृष्ठम्:हितोपदेशः.djvu/४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

 ततोऽप्युद्धृतसारोऽयं हितोपदेशो नाम संक्षिप्ततमो नीतिग्रन्थः सकलजनाञ्छिक्षयितुं तेनैव पण्डितेन संकलितः ।

 ग्रन्थश्चायं बालकानां तिर्यक्कथालोलुपानां नीतिशास्त्रज्ञानायातिपटुतरः प्रथमः सोपानः ।

 एवं नीतिसारमयोऽयमन्वर्थो हितोपदेशोऽस्मान् बलदेवप्रसादमिश्रपण्डितैः पुस्तकान्तरसंमेलनेन सम्यक् संशोध्य प्रेषितः । ततोऽस्माभिरयं संशोध्य सम्यगक्षरैः सम्यङ्मुद्रितः पंडिताग्रेसरजनोपकारायेति ग्राहकास्त्वरया गृह्णन्त्वित्याशासे ।


श्रीकृष्णदासात्मजः क्षेमराजश्रेष्ठी.
"श्रीवेंकटेश्वर' स्टीम्-मुद्रणालयाध्यक्षः.
मुम्बई-स्थः ।