पृष्ठम्:हितोपदेशः.djvu/३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीः ।।

प्रस्तावना ।


 वरीवर्ति सर्वोपरि विश्वम्भरायामिदं भारत वर्षम्; यत्र महर्ष्यादिप्रणीतानि नीतिशास्त्राणि तदनुवर्तिजनाश्चोपलभ्यन्ते । प्रथमं तावत्सृष्ट्युत्पत्तिवेलायां ब्रह्मणा तिरश्च आरभ्य सृष्टिः स्रष्टुमारब्धा । तत्र तत्रासंतुष्टेन मनुष्यजातिर्व्यरचि। तत्र च यदा नयकोविदाः सनकादयः सञ्जातास्तत्रापि स्वकार्यनिर्वाहकत्वानङ्गीकरणान्मन्वादीनसृजत् । तदा प्रथमं मनुना नीतिः प्रणीतोपादिश्यत । इदं च नीतिशास्त्रं साक्षाच्छ्रीमद्भगवतो लब्धं विधिना वेदोपदेशावसरे, ततो बृहस्पतिना, स च बृहस्पतिरिन्द्रायेन्द्रो भरद्वाजाय भरद्वाज ऋषिभ्यश्चावदत् । एवं परंपराप्राप्तमिदं नीतिशास्त्रमृषयः स्वस्वप्रणीतनीतिग्रन्थेषूपाजह्नुः । तथा च भगवता व्यासेनापि श्रीमन्महाभारतं सर्व नीतिमयमेव निरमायि । क्वचित्कया अपि तिरश्चां प्रणीता उदाहरणाय रुच्युत्पादनाय च । इयमेवाग्रप्रचलिता कथानकरीतिः । एवं मनुबृहस्पतिवाल्मीकिनारदयाज्ञवल्क्यपराशरशुक्रादिमहर्षिभिरपि स्वस्वस्मृतौ सम्यगुपनिबद्धमेतन्नीतिशास्त्रम् । आधुनिकैस्तत्सारमुद्धृत्य बहवो नीतिग्रन्था संकलिताश्चाणक्यादिभिः ।

 अथ चासीत् पाटलिपुत्रे कश्चन याचकानां कल्पतरुः सुदर्शनो नामराजा । तेन स्वकीयांस्त्रीनपि पुत्रान्मूर्खान्दृष्ट्वाऽचिन्त्यत, कथमिमें शास्त्रविदो भवेयुरिति । एवं समुत्पन्नचिन्तः स्वाश्रितपण्डितजनानपृच्छत् कथमिमे मदीयाः पुत्रा नीतिशास्त्रनिपुणा भवेयुः ? कोप्यस्त्यस्मदीयपण्डितजनेष्वेतान् शिक्षितुं समर्थः स्वल्पदिनैश्च ? एवं पृष्टाः पण्डिताः केचन द्वादशवर्षाणि, केचन ततोप्यधिकान्युक्तवन्तः। तत्र बृहस्पतिनीतितत्त्वज्ञेन विष्णुशर्मणा पण्डितप्रवरेण मयेमे सुकुलीनास्त्वत्पुत्राः पण्डिताः क्रियन्ते षण्मासाभ्यन्तर एवेति प्रतिज्ञातम् । तदा राज्ञा स्वसभायां संमानितः स विष्णुशर्मा पञ्चतंत्रं नाम सर्वनीतिसारोद्धृतसारं ग्रन्थं विरचय्य तान्पाठयामास । येन ते नीतिविदः कुशालिनोऽभूवन् ।