पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६ गाधरोगध्यायः] इत्यायुर्वेदः । स्निग्धं विर(रिचं विज्ञाय बृहणीगैरुपाचरेत् ॥ सहसा वाऽपि पतनाद्वथनात्प्रतिहस्तिनाम् । यदा संभिद्यते गात्रं भिद्यते ममवैतिपि (?) । वामाङ्कु(?)मेटिंना “ याधिर्नराधिप । वेदना श्वपथुः स्तम्भो गात्रे तीव्रा च वेदना । तस्य वक्ष्याम्यशेषेण निखिलं भैषजं विधिम् । भममात्रस्य यत्प्रोक्तं साधनं भक्तसंविधौ । तत्कार्ये मोटनस्यापि व्रणवञ्च तमाचरेत् ॥ अथ वोन्मथितं गात्रमपरा वाऽपि लक्ष्यते । तस्योत्पत्तिर्निदानं च चिकित्सा च प्रवक्ष्यते ॥ सहसा वा सक्तौ वा यदा वाँत वारणः । गात्रापरं नामयति सहसा विषमस्थितः । कर्दमे वालुकायां वा संरब्धो वा न सीदति । तरतो वा प्रसडेन सलिलेऽत्यर्थयोगतः ।। अथवा गुरुसंरब्धः सहसा परिधावति । वृक्षप्राकारपरिघान्सहसा वा प्रमर्दतः ॥ ततोऽस्य कुपितो वायू रक्तमादाय तिष्ठति । करोति गतिवैकल्यं चरणस्तम्भमेव च । श्वयथु तस्य गात्रेषु मनस्तापं च दन्तिनः । इत्येतद्विविधं प्रोक्तं लिङ्गमुन्मथितस्य च । सर्पिषा सेचनं तस्य सततं कारयेद्विषक् । मलेपं शीतलं तस्य क्षीरवृक्षेः समाचरेत् । वेतसस्य च मूलानि वटस्याथ नलस्य च । कसेरुकं समञ्जिष्ठं नलदं तर्पणं तथा । श्लक्ष्णपिष्टैः समैरेभिः प्रलेपं तस्य कारयेत् । त्रिरात्रं पञ्चरात्रं वा ततः संपद्यते सुखी ।। ४७ १ क. *वत्यिपि । २ क. ०टनां व्याधियदा वाऽपि नरा" । ३ क. प्रसक्तो । ४ क. वाहेन । १ क, “रिवान्स० ।