पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • गर्भावक्रान्त्यध्यायः ¥ rि

४०७ विश्व कतमे मासि ववंशः प्रविभज्यते ॥ ‘वृक्कौ नखानि रोमाणि यज्ञदत्राणि पॅम्फसम् ॥ ५॥ हृदयं कतमे मासि गर्भ जायेत दन्तिनः ॥ पोतः कथं संभवति पोतकी जायते कथम् ॥ ६ ॥ पोती पोतोऽथ यमकं मिथुनं जायते कथम् । उभौ केन उभे वा पोतिके कथम् ॥ ७ ॥ वा पोतक कथं वन्ध्या च शण्ढश्च कोशमेही च जापते ॥ कथं मृगः संभवति मन्दो वा केन जायते ॥ ८ ॥ भद्रश्वापि कथं नागः संकीर्णश्च कथं भवेत् ।। मन्दो मृगमनाः केन मृगो मन्दमनाः कथम् ॥ ९ ॥ भवेत्तु जवनः केन जायतेऽल्पबलः कथम् । कथं भीरुः प्रकृत्या च प्रकृत्या शूर एव च ॥ १० ॥ कथं भवति दुर्मेधा मेधावी च कथं भवेत् ॥ मन्दमेधश्च मातङ्गश्चैतदिच्छामि वेदितुम् ॥ ११ ॥ कालः कथं च भवति श्यामो वा केन जायते ॥ हरिद्वर्णा भवेकेन वृक्षाभः केन वारणः ॥ १२ ॥ निग्धच्छविर्वा मातङ्गः कथं स्याल्लोहितच्छविः । स लोहितच्छविः केन वर्णेषु भवति त्रिषु ॥ १३ ॥ गजश्चोलूकवर्णाभः कथं भवति जातितः ॥ केन वर्णेषु भवति त्रिषु चोलूकवर्णभाक् ॥ १४ ॥ बहुवर्णश्च मातङ्गः कथं भवति जातितः । मुद्रवर्णश्च मातङ्गोऽयुपदिग्धश्च तत्र यः ॥ १५ ॥ श्वेताभो जायते केन एतदिच्छामि वेदितुम् ॥ नखानि केन कालानि राजिमन्यपि वा कथम् ॥ १६ ॥ कथं श्यामानि जायन्ते श्वेतान्यपि च हस्तिनः ॥ केनास्य तालुकं कृष्णं केन कल्माषत।लुकम् ॥ १७ ॥ केन पत्रपलाशाभं तालु नागस्य जायते ॥ कालजिह्वः कथं नागस्ताम्रजिह्वोऽथवा कथम् ॥ १८ ॥ + 'बुक्का' इति भवेत् ॥ १ कः वृष्कौ । २ क. पुष्पसम् ।