पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ लंबमाध्यायः] ईस्यायुर्वेदः ३९१ अम्लो रसो वातमनुलोमयति । क्षिपपाकित्वात्तैक्ष्ण्यात्मचेदित्वात्त्रेताद् cपाच शोषित्वशैरथरौक्ष्यमार्दवान्यभिभवतीति । लवणोऽप्येनमौष्ण्यात्मशम यति । तैक्ष्णमणुदति । नैष्जयति परिशोषभयं चास्य विस्पन्विस्वादु वी करोति । लवणो हि रसो वातप्रस्यनीकत्वाद्रसानामतिवीर्यवाट्सतमतिबल अपि दोषाणां बहुगुणत्वाद तिरसबाहुल्याद्वा इन्ति । मधुरोऽप्यस्य रसः ब्रहाद्रक्ष्यमभिभवति । गौरवेण लाघवम्, अतिवीर्यवाद्विदाद्दिवाबलेन चेनमभिभूय जयति, इति । अम्ललवणमधुरा रसास्रयो वातं शमयन्ति । इत्येतै रसैः प्राणादिषु विप्रतिपन्नेऽक्तो यो रोमसमुद्देशः, स शाम्यति ॥ वर्धते च यथारोगं-तदशान्तौ मनसो ( विप्रतिपत्तिः । मनसो ) विम तिपत्तौ मानसौ द्वौ रोग-पूर्वाबद्धहृदयस्फालिनौ । तदशान्तौ ग्यापद्यते चेतना बुद्धिः । ततो नागानामभावः। एवमेते भाणादयः पञ्च, द्वौ च मानसौ चेतना बुद्धिश्चेति नव ॥ तत्र श्लोकाः गजानां देहजा नित्यं वातपित्तकफास्रयः। ठयाधयस्तु गुणाश्चैव तेषां रसनिमित्तजाः । त्रिषु दोषेषु ये दृष्ट गुणा गुर्वादयो दश । रसेष्वपि त एव स्युर्विज्ञातव्या विचक्षणैः॥ शीतोष्णौ स्रिग्धरूक्षौ च तथा विशद पिच्छिलो । मृदुतीक्ष्णौ गुरुलघु विज्ञेयास्तु गुणा दश । बुद्ध्वा सम्यग्गुणानेताभ्रसदोषेषु बुद्धिमान् । प्रतिहन्यादुदीर्णवैः प्रत्यनीकैर्गुणैर्गुणान् । एतेषां प्रतीकाराभ्युत्थितेन भिषजा चतुर्दशेमानि ज्ञातव्यानि भवन्ति निमित्तम् , आयुः, बलम् , सवम् , साम्पम् , प्रकृतिः, व्याधिः, शरीरम् , कालःवयःदेशः, ग्रहणी, अभिचारःआशास्तकम्, इत्येतानि सम्यगुपल क्षयितव्यानि । यस्मादेतेषु चिकित्सऽऽयत्ता ॥ अथैषां निर्देशमनुव्याख्पास्यामः । तत्र निमित्तं दूतागम आतुरस्य पूर्वा- पाने मस्थाने प्रवेशे च परिमने परिग्रहौषधसंस्कारारम्भेषु च भिषजा परीक्ष्यम् । तत्र श्लोकः भस्थाने च प्रवेशे च निमित्तान्युपधारयेत् । ततः क्रियां प्रयुञ्जीत यदीच्छे दूतिमात्मनः ।