पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 गजशान्त्यध्यायः ] हस्त्यायुर्वेदः । व्यपोहस्व व पापानि इह राज्यं शतं समाः ।। त्वया विसृष्टाः करिणो मनुष्याणां च संगताः ॥ १२ ॥ अविसृष्टं त्वया नापि भोक्तुमर्हति कञ्चन || अपूतिमांसं सा रक्षमुपधापरिवर्जितम् ॥ २३ ॥ अनारूढं हि मनुजैस्त्विममारुह्य कुक्षरम् || गृहाण व पथावस्वं सेनान्ये मद्रमस्तु ते ॥ १४ ॥ • संप्रयच्छन्तु नागानां वर्णारोग्ययशांसि स्वाहा || आदापुधं ताम्रचूडं शतपत्रं मनोरमम् ॥ ९५ ॥ विचित्रपत्रं रक्ताक्षं कुक्कुटं दर्शयामि ते ॥ . . कुकुटं मे गृहाण त्वं सेनान्ये भद्रमस्तु ते ॥ १६ ॥ संप्रयच्छन्तु नागानां वर्णारोग्ययशांसि च || दंष्ट्राधरं चतुष्पादं पृथिव्यामुग्रदर्शनम् ॥ १७ ॥ करेणुगात्रं रक्ताक्षं वराहं दर्शयामि ते ॥ . वराहं तु गृहाण त्वं सेनान्ये भद्रमस्तु ते ॥ १८ ॥ संप्रयच्छस्व नागानां वर्णारोग्ययशांसि च स्वाहा ।।

प्रभूतवर्णं लागलं सर्वाङ्गसुसमाहितम् ॥ १९ ॥ धौत मामलकैः पूतैर छागं संदर्शयामि ते ॥ छागमेतं गृहणि त्वं सेनान्ये भद्रमस्तु ते ॥ संप्रयच्छस्व नागानां वर्णांरोग्ययशांसि च स्वाहा ॥ १०० ॥ सहस्रमूलाव (द)नतं देवराज विलेपनम् || प्रवरं सर्वमूलानामुशीरं दर्शयामि ते ॥ १ ॥ उशीरं मे गृहाण त्वं सेनान्ये भद्रमस्तु ते ॥ २ ॥ संमयच्छस्व नागानां वर्णारोग्ययशांसि च स्वाहा || वैराजर्जा त्विमां भालां सहस्राक्षेण धारिताम् ॥ ३॥ संभूतां पर्वतश्रेष्ठे आहर्ता गन्धमौदनात् || नारायणकृतावासां बलदेवप्रियां शुभाम् ॥ ४ ॥ ग्रहण मालां प्रवरां सेनान्ये भद्रमस्तु ते ॥ संप्रयच्छस्व नागानां वर्णारोग्पयशांसि च स्वाहा ॥ १०५ ॥ इमाममृतसंभूतां देवतानां मनोहराम् ॥ मीतिसंजननीं देवीं भूतनागनिषेविताम् ॥ ६ ॥