पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ मजशान्त्यध्यायः ] इस्पायुर्वेदः तथैक सर्वतोऽनन्ताममिष्यामि कृताञ्जलिः || दिशो दश च ये नागाः संतुः काममधिष्ठिताः ॥ ६३ ॥ यूमिधरान्भुजङ्गांश्च तात्रमिष्ये कृताञ्जलिः ॥ S आशिं चास्याऽऽहुतिं तेषां भूयः स्वस्ति गजे पुनः ॥ ६४ ॥ भवन्त्वरोगाश्च गजाः समृद्धि यान्तु यानकाः ॥ प्रयच्छन्तु च नागानां वर्णारोग्ययशांसि च स्वाहा ॥ ६५ ॥ . सरितश्च नमस्कृत्य चतुरश्च महोदधन् । . - | गङ्गां च यमुनां चैव नर्मदां च महानदीम् ॥ ६६ || गोदावरीं भीमरथी कृष्णां वेणां च निम्नगाम् || | विपाशां च वितस्तां च चन्द्रभागामिलावतीम् || ६७ ॥ तापीं च मनसस्ताप कौशिकी गण्डकीमपि । कुर्वन्तु स्वस्ति नागानां निर्वाणं च रणे तथा ॥ ६८ ॥ आपगाः सरितच स्युर्देशेषु नगरेषु च || आशिं चास्याऽऽद्रुतिस्तेषां भूयः स्वस्ति गजे पुनः ॥ ६९ ॥ भवन्त्वरोगाश्च मजाः समृद्धिं यान्तु याजकाः || | प्रयच्छन्तु च नागानां वर्णारोग्ययशांसि च स्वाहा ॥ ७० ॥ भूमी (मि) धरानभिमतान्महातेजान्महाबलान् || वन्दे वन्द्यान्मुहाभागा ज्युचिर्भूत्वा कृताञ्जलिः ॥ ७१ ।। अनन्तं प्रथमं वन्दे सर्वलोकाभिपूजितम् ॥ ७२ ॥ कर्कोटकं धूमशिखं वासुकिं च महाबलम् || कालिकं चात्र वन्दित्वा बलमुत्पलमेव च ॥ ७३ || हरिं च विद्युज्जिह्वं च कम्बलाश्वतरावुभौ || उभयं च तथाऽऽदित्यं जिह्वां चोपरि लेढि च । ७४ ।। प्रपतन्तैः "श्वापि लाङ्गलेन निषेवते ॥ अणुर्नागो महानागः पञ्चशीर्षो महाबलः ॥ ७५ ॥ नागो मणिमहश्चैव पे चापि धरणीधराः ॥ . कुर्वन्तु स्वस्ति नागांनां निर्वाणं ते रणे तथा ॥ ७६ ॥ अन्तर्भूमौ च ये नागा ये चापि दिशि गोचराः ॥ आशिं चास्याऽऽहुतिं तेषां भूयः स्वस्ति गजे पुनः ॥ ७७ ॥ . १ क. 'न्तः करैश्चापि । ▶