पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यनिविरचितो- [ ४ उत्तरस्थाने- अदिते नमस्तेऽनुमते नमस्ते देवसवितुर्नमस्ते || उत्तिष्ठा विध्वस्य स्वभीतं चरितं मया ॥ ४९ ॥ विबोधपत्यम्सरसो बहवस्ताश्च ब्राह्मणाः || पागं च म पृच्छस्व प्रसनो हव्यवाहनः ॥ ५० ॥ श्रु (सु) वेणाऽऽज्यं सहीत्वाऽथ शान्तिर्भवतु हस्तिनाम्, स्वाहा || समिधे स्वाहा, भू स्वाहा, भुवः स्वाहा, स्वः स्वाहा, भूर्भुवः स्वः स्वाहेति ॥५१॥ बुद्धौ बोधय भूतानि ब्राह्मणं वाऽमितौजसम् || सहस्साक्षं भूपति च कुबेरं वरुणं यमम् ॥ ५२ ॥ विष्णुं चैव महात्मानं तथा नारदपर्वतौ ॥ उद्दालं काश्यपं कालं मरीचि भृगुमेव च ॥ ५३ ॥ ऋषिमुख्यानमिष्यामि सर्वानेव कृताञ्जलिः || · आशिं चास्याऽऽहुतिं तेषां भूयः स्वस्ति गजे पुनः ॥ ५४ ॥ भवन्त्यरोगाश्च गजाः समृद्धिं तद्धि पाजकाः || द्विरदानां प्रयच्छन्तु बलारोग्ययशांसि च स्वाहा ।। ५५ ।। पक्षा भूतानि गन्धर्वा ओषध्यश्च दिशां गजाः ॥ आदित्या मरुतश्चैव अश्विनौ च तथा ग्रहाः ॥ ५६ ॥ गजानां संप्रयच्छन्तु वर्णारोग्यपशांसि च || ऐरावतं पुष्पदन्तं कुमुदं वामनं तथा ५७ ॥ पुण्डरीकं नीलवर्ण सार्वभौमं सुतेजसम् || सुप्रतीकं व नागो द्वो पर्वमालिनमेव च ॥ ५८ ॥ महागजास्तथैवान्ये तात्रमस्मे (?) कृताञ्जलिः ॥ आशिं चास्याऽऽहुतिं चैव भूपः स्वस्ति गजे पुनः ॥ भवन्त्वरोगाश्च गजाः समृद्धिं यान्तु याजकाः || प्रयच्छन्तु च नागानां वर्णाग्यशांसि च ॥ ६० ।। अङ्गिरोजमदी च वसिष्ठं पुलई ऋतुम् ॥ दीर्घं परिवरं चैव पुरुस्त्यं रूपवनं तथा ॥ ६१ ॥ 'वेभ्यः सद्यः स्थितास्त्वापस्तया पर्वतमालिनम् ।। हिमवत्यमुलायापि तथैव कुलपर्वतान् || ६२ ||

  • 'नमस्यामि ' इति भवेत् ।

५९॥