पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ परिचारकहेतुज्ञानाध्यायः ] हंस्त्यायुर्वेदः । सम्पक्स्विन्नविपर्यासे दुःस्विन्नमिति निर्दिशेत् || अतिरिक्तविरिक्ते च दुर्विरिक्ते च वारणः ॥ १७ ॥ लक्षणं वक्ष्यते राजंस्तन्निबोध यथातथम् || वातमूत्रे प्रचलतः करीषं चातिवर्तते ॥ १८ ॥ दोषाः सह करीषेण प्रच्यवन्ते नराधिप || पश्चाच्छ्लेष्मैव शुद्धस्तु अतिरिक्तस्य लक्षणम् ॥ १९ ॥ . शूलं पार्श्वे सहृदये स्थाने न लभते सुखम् ॥ . दृश्यतेऽत्र करीषस्य चन्द्रकाण्य सृजोक्षितम् || २० || दुर्बलो दुर्मनाः क्षामः परिशुष्कमुखो भृशम् || अतियोगे विरिक्तं तु विद्यादेभिः सुलक्षणैः ॥ २१ ॥ अल्पदोषस्य महती मात्रा यस्य प्रदीयते ॥ सा तस्य दोषं निर्हत्य परिताप्य यथाशयम् ॥ २२ ॥ अथवा जीवमादत्ते वारणस्य महीपते ॥ ४६ इत्येतल्लक्षणं विद्यादतिरिक्तस्य लक्षणम् ॥ २३ ॥ दुर्विरिक्ते गजे सिद्धिं प्रवक्ष्यामि महीपते || शीतमस्मै तु कवलं दद्याभागाय योगवित् ॥ २४ ॥ सुखोदकेन पानार्थे परिषेकं च दापयेत् || • भोजनादिविधिं कुर्यादानाहेषु यथास्मृतम् || २५ || " अस्निग्धस्य तु नागस्य चिकित्सां शृणु पार्थिव || स्नेहपाने यथा प्रोक्तो विधिः स्नेहं समाचरेत् ॥ २६ ॥ अस्विन्त्रस्य तु नागस्य चिकित्सा तत्मवक्ष्यते ॥ यदुक्तं पित्तमूर्छायां तत्पूर्वं संदी (दापयेत् || २७ || अस्विन्ने च यथायोगं पुनः स्वेदं समाचरेत् || सम्यग्धीनातिरिक्तानां निरूहाणां महीपते || बस्तिसिद्धौ विधिः कृत्स्नो निखिलेषु प्रकीर्तितः ॥ २८ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेद उत्तराभिधाने' चतुर्थस्थाने परिचारक- हेतुज्ञानं नाम चतुर्विंशोऽध्यायः ॥ २४ ॥ १ क, सांप्रतम् । २ क. °दीयते ॥ २७ ॥