पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[४ उत्तरस्याने- पाकका पुनर्विरचितो- यवसार्थ प्रशस्यन्ते पावन कठिनं फलम् । गोधुमः कठिनफलो नित्यं देयो यवोऽपि ६ ॥ ३ ॥ पुष्पितों रक्तजननः फलितो मांसवर्धनः || अनूपजललं मांस वसा मेदो घृतं तथा ॥ ४ ॥ माहिषं च द्रधि क्षीरं तैलोष्णे चावमर्दयेत् || घृतं क्षीरं पवाः शालिमाँसानि मधुराणि च ॥ १०५ ॥ अतो यस्मिन्मशस्तानि दन्तिनां जलदास्यये | शर्करें (?) प्रतिपानार्थे लवणार्थे च सैन्धवम् ॥ ६ ॥ दिवा स्थानानि शीतानि रात्रौ चन्द्रांशवो हिताः ॥ ग्रीष्मर्वच्चावगाहश्च कार्यः शरदि दन्तिनाम् ॥ ७ ॥ सूपशुपरितप्तानां चन्द्रेणाssप्यायितानि च ॥ आगस्त्योदकयुक्तानि निर्विषाणि शुचीनि च ॥ ८ ॥ निर्मलानि निपानेषु जलान्यमृतवत्तदा ॥ पानावगाहे करिणां प्रशस्तानि विशेषतः ॥ ९ ॥ (+भोजनार्थे प्रदातव्यं जागलानूपमिश्रितम्) | पूर्वाह्न वापरा वा द्वौ कालो सत्र बुद्धिमान् ॥ ११० ॥ प्रचारयन्त्रजन्नागानरण्येषु विभागवित || काशपुष्पपर्टी शुभ्रां तदावि (वि) त्रिनिगाम् ॥ ११ ॥ परिपकर्तॄणां चैव धरणीं तत्र शालिनाम् || कमलोत्पलकलारजातां गन्धवहस्तदा ॥ १२ ॥ मारुत्तः सुखसंस्पर्शो वाति शीतश्वशीतलः ॥ विचित्राणि स्वादवन्ति तृणानि सकिलानि च ॥ १३ ॥ शरद्रणैः सुमनसो भवन्ति करिणस्तदा || काले तु प्रतिकुर्वीत हस्तिनां वन्तकल्पनाम् ॥ १४ ॥ स्वातिसंपातयोगे च काले भीराजनास्तदा || रामश्च पात्रांकालोऽभ शस्तः कर्मसु दन्तिनाम् || ११५ || . • क- धपुस्तकयोस्तु – एतदुत्तरमेष 'विशेषोऽहनि' इत्यारम्य 'रसैर्मधुरतिक्तकैः' इत्यन्तो धनुश्श्रिद्धान्तर्गतपाठ उपलभ्यते || + धनुश्चिह्नान्तरगतः पाठो नास्ति ख-घपुस्तकयोः । तत्र 'भोजनार्थे' इत्येव 'रसै- मधुरतिक्तकैः' इत्युत्तरमुपलभ्यते ॥