पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यवसाध्यायः-] इस्त्यायुर्वेदः । वर्षास स्थलजं देयं जलजं च विवर्जयेत् || हेमन्ते जाङ्गलं भूयः स्थलजं च महीपते ॥ ६ ॥ वसन्ते तु तृणं दद्यात्कषायकटुकं रसे || ग्रीष्मे तृणं शेषमाद्रं दापयेच गुडोदकम् ॥ ७ ॥ कुलमाषमोदकं चैव सानुपानं प्रदापयेत् || प्रावृट्काले महाराज दापंपे पिष्टमोदकम् ॥ ८ ॥ छविरोमप्रसादार्थ पञ्चमेऽहनि दापयेत् || अनूपजानि शरदि प्रदद्याच्छाड्वलानि वै ॥ ९ ॥ हेमन्ते स्थलजं दद्यात्मसन्नां चांचिरस्थिताम् || प्रदद्याद्यवसान्येव बुद्धिमाशास्त्रनिश्चयात् ॥ १० ॥ ऋतुष्वेवं महीपाल योगसात्म्यैरदन्तिनम् ॥ ओषध्यः फलपाकान्तास्तासां सर्वगतो रसः ॥ ११ ॥ भवत्यजातवीर्याणामम्लः श्लेष्मविवर्धनः || अजातकाण्डं तरुणं पत्रलं शस्यमुच्यते ॥ १२ ॥ श्रावणे तु तृणं मासे भाद्रपदे जातपर्वकम् ॥ ईषन्मधुरमम्लं च जायते प्राणवर्धनम् ॥ १३ ॥ गर्भमाश्वयुजे मासे सगर्भ मधुरं भवेत् || विमुक्तमम्लभावेन जायते मांसवर्धनम् ॥ १४ ॥ कार्तिके तु तृणं मासे जातवीर्यरसं भवेत् || मांसशोणितमज्जानां बृंहणं माणवर्धनम् ॥ १५ ॥ मार्गशीर्षे तृणं राजन्व्यक्तं परिणतं दृढम् || 'शुक्रवृद्धिकरं राजञ्जायते प्राणवर्धनम् ॥ १६ ॥ परिश्शुष्कार्द्रपत्रं च शीर्ष पुष्पं फलं तथा || पौषमासे तृणं विद्याभागानां मेदसो हितम् ॥ १७ ॥ तुषारपाताभिहतं सूर्येष्णोपहतं भवेत् || माघमासे तृणं प्रायः संशुष्क मुपजायते ॥ १८ ॥ . तृणमल्परसं चापि न वा माणविवर्धनम् || कविदा कचिच्छुष्कं फाल्गुने मासि जायते ॥ १९ ॥ 'शीर्षपुष्पफलं' इति भवेत् ॥ १ ख. घ. धारिर' ।