पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ नेहविध्यध्यायः ] इस्त्यायुर्वेदः । प्रशान्तिमुपगच्छन्ति, वक्षसय बलवृद्धिमनुजनपति, पूर्वकाय: प्रवली भवती- त्पेतदनुभक्तिकं स्नेहपानमुपदिशन्त्याचार्या: ॥ . अत ऊर्ध्वं षड़तुविभागजं स्नेहपानविधिमनुव्याख्यास्यामः ॥ यदा तु ग्रीष्मे - विततमयूखः सविता मध्यमकोष्ठमुपगतो भवति, तदा वायुः भवलो भवति । वरपरुषोष्णभावात्कालस्य तद्वायुरभिभवति, वेदा नृवार- जानां नानाविधलिङ्गवेदनाश्च विकारान्कुरुते । तदा तैलमसंस्कृतं त्रिभागज- लसंयुक्तं मासमेकं खजाकमथित मच्छं दापयेत्पूर्वाह्णे | ततः प्राप्ते मध्याह्न चावगाह्य यथा चतुर्गुणसंयुक्तं तृणमुपयोजयेत्, विधां (ऋचास्मै पथावत्प्रमाण- विहितां दद्यात् । मृत्तिकारक्षणं च विशेषतः कार्यम् । एतमुपयोजयेत्, न बातदोषजा विकाराः संभवन्ति । तदा तैलोदकपानेन क्षुत्पिपासासहत्वं प्रसन्न- तनुरोमता ग्रहणीदृष्टिबलं मुखशोषं पित्तकोपचयेत् । रोगाभवो बृहत्कापता वारणानां भवति || अथ वर्षाकाले क्षीयमाण दिवसे मन्ददिवसकर विसर्गे निचितजीमूतसलील- विसर्गे कलुषनदीजलावर्त बहुलनाना मृदु शष्प मृत्तिकाभक्षण कृतैदोषैः क्षीणधातु- शरीराणां वारणानां नानाविधलिङ्गवेदना विकाराः संभवन्ति । तस्माद्यथोक्तम- माणमानुभुक्तिकं सर्पिस्तैलं यथाकालं पाययेत् । तेनैषां वातपित्तजा विकाराः शान्तिमुपगच्छन्ति । स्थिरकठिनशरीरा अनाविला: संभवन्ति । निरुपद्द- तवीर्याः संपूर्णदेहाश्च विशेषेण भवन्ति ।। अथ शरदि' दिवसकरकराभिनिर्दिष्टे जगति विहितवीर्यास्वौषधीषु सस्यै- बेहले भूमिभागे मन्दवृष्टिजलधर शब्द वीरुद्वनस्पतिवानस्पत्यानामसमत्वागत- वीर्यत्वादुष्णभूयिष्ठास्वौषधीषु तदा सर्पिःक्षीरपानं वारणानां प्रातः संविधेयं भवति तदा च क्षीरसाभ्यां निदाघसमुत्थाः पित्तप्रबलभूपिष्ठा विकाराः मशा- न्तिमुपगच्छन्ति || यदा जु हेमन्ते भिनजात इव विश्वंभरा इव बाष्पापमाणाः सरितः सपृष्ठ - जलमभिवहन्ति तदा यवसौवीरकसंस्कृतं तैलमुपदिशन्ति । तेनैषां श्लेष्मणः संजायमानस्य प्रवेगोपशमो भवति । वातश्लेष्मप्रशान्तिश्च भवति ।। शिशिरे यदा तु शिशिरपवनजातशेषे गजानां संजात बलवीर्याणा मौषधी- नामुपपोगाच्छ्छ्रेष्मणो भूयस्त्वं भवति । वारणानामत्पर्थं स्थूलशरीराणामिति ।

  • धनुश्चिह्नद्वयान्तःस्थः पांठो नास्ति कपुस्तके ||

१ क. देहा | २ क. ख. खजानम ° | घ. खर्जवम |