पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुमिविरंचितो- [ ४ उत्तरस्थाने- बलं नागेषु राजेन्द्र प्रोक्तं प्रकृतिसंभवम् । तद्धलं द्विविधं भूप प्रवक्ष्यामि यथाक्रमम् ) || विधानेहरसैर्युक्तं पश्च प्रकृतिसंभवम् । तद्धि श्रेष्ठं बलं राजन्बले बलसमाश्रितम् || ततः प्रयोगे, सततं विपरामर्षणे तथा । बसा पं महीपाल आहार विधिमाश्रिताः ॥ तेषां विभागं वक्ष्यामि यथातथ्यं महीपते । कषायं मधुरं शीतं पित्तघ्नं तिक्तमेव च ॥ अम्लं च लवणं चैव तस्य तीक्ष्णं च कोपनम् । कषायं कटुकं तिक्तं रूक्षं चानिलकोपनम् || अम्लमुष्णं च लवणं स्निग्धं वातनिवृत्तपे || मधुरं लवणं सौम्यं शीतं च कफवर्धनम् || तिक्तं च कटुकं चैव रूक्षं च कफनाशनम् | मधुराम्लकषापाणां लवणस्य तथैव च || दद्यादरत्निपलिकं दन्तिने प्रथमे दिने । कटुकस्पाथ कर्षं च तिक्तस्य द्विगुणं ततः || भागान्वृद्धया क्रमः कार्यो यावत्सम्पप्रतिष्ठितः । पित्तसात्म्पस्य नागस्य परिशुद्धमुखस्य च ॥ पलानि मधुरः पिण्डपष्टिर्दया विजानता । तिक्तकः पञ्चहीनो वा दशभिः कटुको नृप || षष्टिरेव कपायस्य लवणस्य तथैव च । सप्तहस्ताय दातव्यो हीनो हीनाप दन्तिने || विज्ञेयो विंशतिपलः केवलस्तु प्रमाणतः | ज्ञेयमौषधवर्गाणां प्रमाणं पिण्डवत्प्रभो ॥ मात्रया हीनपा द्रव्यं विकारं न निवर्तयेत् । • अधिकं कुरुते दोषं वारणस्य महीपते || तस्मादमि बलं कालं शरीरं प्रकृतिं वयः । सात्म्यं सत्वं च विज्ञाय भिषग्भेषजमाचरेत् || द्रोणे तु विंशतिपलं भेषजानां विधीयते । एतत्प्रमाणं (* घृतमनु) विधेयं भवति, अथ वातरक्तपित्तोपशमने वर्तते,

  • कपुस्तकस्थोऽयं पाठः । ख-घपुस्तकयोस्तु वर्णानां त्रुटिरेव स्थापिता ||

५८४