पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२८ पालकाप्यमुनिविरचितो- [ ३ शस्यस्थाने+ स्ताद्द्वात्रसंधयः । संधयोरधस्तात्क्षयौ । क्षययोरधस्तारष्टृष्ठतो वहि: । तयोरधः पुरस्तात्पिण्डिकौ । पिण्डिकयोरधस्ताद्वैशाखौ | वैशास्खयोरघस्ताज्जवभागौ । जवभागयोरधस्ताद्विशेषौ । विशेषयोरधस्तादुत्सङ्गो | उत्सङ्ख्योरधस्तात्मो- त्साहौ । प्रोत्साहपोरधस्तात्पर्वणी | पर्वण्योरघस्तात्संदानभागौ। संदानभाग- योरधः पठिपादौ । तयोरभः कूर्मों । ततो दश नखाः । ततो दश नखविशि- खाः, दश नखाग्राणि । ततो राज्यः | ततः पश्चात्पादयोदेश नखाः | तेषा- मुभौ पुरोनखौ । पुरोनखद्वयस्य प्रत्येकं बहिःपार्श्वे द्वौ सनखौ | अन्तःपार्श्वे नख- श्रा (ला) वौ | तेषां चतुर्णा बहिःपार्श्वतश्चत्वारः पार्श्वे नखाः । इत्येवं नखा विंशतिः । पार्श्वनखयोरुपरि बहिःपार्श्वेऽपराजयः । अन्तःपार्श्वे नखयोरुपरि तलमोहौ । तलमोहयोरुपरि विक्षे । विक्षयोरुपरि पलिहस्तौ । पलिहस्ताभ्य न्तरे निवाहू | पलिहस्तयोरधस्तात्माकर्णी *नवहौ । पलिहस्तयोरुपर्यप- स्कारौ । अपस्कारयोरुपरि पाद्यौ । पाद्यपोरधस्ताद्गात्र ग्रहो || तत्र श्लोकः - बडेते नवतिश्चैव प्रदेशा गात्रसंश्रिताः || आसनात्प्रभृति 'श्रीमानातलात्परिकीर्तिताः || काय आसनम् । आसनात्परो वंशः | वंशपार्श्वे तल्पलौ | वंशादुपरि कुवंशः । कुवंशस्प मध्ये पश्चिमासनम् । पश्चिमासनात्परं त्र्यस्थि | तस्योभयपार्श्वयोरु- त्कृष्टौ | अस्मः परो लाङ्गूलवंशः | पश्चिमवंश इत्येके | अपरवंश इत्यपरे । लाङ्गूलवंशस्याघस्तालाङ्गूलसंधिः । लाङ्गूलसंधेरधस्तात्पेचकः । पेचकाधस्ता- द्गुदः । पायुरित्येके | गुदाधस्तात्करीपत्रावः | कायस्य मध्ये कक्षाभागौ । कक्षाभागपार्श्वयोः करणौ । ततः पृष्ठतः पादौ यत्र प्रतिबद्धाः पर्युकाः । पक्ष- योरुपर्यवतारौ । पक्षपश्चाद्भागयोः कुक्षी | कुक्षिमध्ये निष्कोसौ । ततः संकोसौ । तयोरुपरि मृदुकुक्षी | वंशस्य पश्चाद्भागाश्रित पक्षसंधी | ततः पक्षपो- रघस्तादायामकाण्डे । तयोरधः कक्षौ । आयामकाण्डपोः पश्चादपरसंधिः । अपरसंधेरधस्तादनुसारौ | तत्र आहृदयाज्जठरम् | जठर मध्ये कोशम् | कोशस्पा- प्रतो नाभिः | तत एव हृदपादनुसृतान्तरं स्तनाः | तस्याः पार्श्वे स्तनौ । उत्कृष्ट संधयोरधस्तादुत्कृष्टसंधी इति || तत्र श्लोकः-

  • निवाह्रोः पलिहस्तयोरिति भवेत् ।' 'श्रीमन्नातलात्' इति भवेत् ।

१ ख. प्रोत्सयो । २ क. प्रदेशे।