पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ मर्मविद्धाध्यायः ] हस्त्यायुर्वेदः । गजानां न हयानां च मानुषाणां तथैव च ॥ छेदं तु विविधं कार्य वारणस्य विजानता ॥ ५५ ॥ वृद्धिपत्रेण तीक्ष्णेन मण्डलाग्रेण वा पुनः || आसनेऽथ कलाभागे कण्ठे वंशे च गण्डयोः ॥ वृत्तच्छेद्यं तु कर्तव्यं भोगेष्वेषु दन्तिनाम् ॥ ५६ ॥ पञ्चाङ्गुलपदं कुर्यात्सप्ताङ्गुलमथापि वा ॥ नवाङ्गुलं वा नागस्य शस्त्रकर्म विधीयते ॥ ५७ ॥ एतत्सर्वं विनिश्चित्य च्छेदं नागस्य कारयेत् || वासितेनैव शस्त्रेण कर्म कुर्याद्विचक्षणः ॥ ५८ ॥ वेध्यं व्रीहिमुखेनैव मण्डलाग्रेण लेखनम् || विश्रा (खा) वणं कुठारेण वेत्सदन्तेन च स्मृतम् ॥ ५९ ॥ सीवनं द्विविधं विद्याद्रुणवग्रन्थिमत्त्वपि || स्थिरेषु ववकाशेषु ग्रन्थिसीवनमिष्यते ॥ ६० ॥ मांसलेष्वेवकाशेषु चलेषु मृदु संधिषु || गुणसीव्यं च कर्तव्यं वारणस्य विजानता ॥ ६१ ॥ सीवने तु भवेत्सूची सूक्ष्मा त्वष्टाङ्गुलापता || नागदन्तकसंस्थाना लक्ष्णा वै सुसमाहिता ॥ ६२ ॥ कंधररावग्रहा भागे कुक्षौ पक्षेषु संधिषु ॥ नागदन्तकसूच्या वै सीवनं सम्पगिष्यते ॥ ६३ ॥ संग्रामे हस्तियुद्धे वां विकृतस्य तु हस्तिनः || सद्यःक्षते महाराज सीवनं तु विधीयते ॥ ६४ ॥ पक्क रेष्ववकाशेषु परिश्रा (सा) विषु दन्तिनाम् || संधानान्येव फॉर्याणि सीव्यं तत्र न कारयेत् ॥ ६५ ।। शतं सप्त च मर्माणि भागाभागेषु हस्तिनाम् || प्रोक्तानि पालकाप्पेन अङ्गराजाय पृच्छते ॥ ६६ ॥ व्रणकर्मणि नागस्प अभ्यङ्गः पूज्यते सदा ॥ स्नेहपानं च नागानां स्निग्धमेव च भोजनम् ॥ ६७ ।। १ क. ख. नागेष्वेतेषु । २ ख. च्छेद्यं । ३ क. ख. तत्सदन्तेन । ४ क "न्थिवत्त्व ° । ख °न्धिमत्स्वपि । १ क. प्वककालेषु । ६ क. सीवनं | ७ क. ख. कर्माणि । ८ क. ख. कर्माणि ।