पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिधिरचितो- दन्तान्तरस्प मध्ये तु प्रतिमानस्य चोपरि ॥ फेत्करं नाम सम्मर्म सद्यः प्राणहरं नृप ॥ १२ ॥ वातकुम्भस्प वाधस्तात्प्रतिमानस्य चोपरि || तालुश्रो (स्रो) तोवहं मर्म भिन्ने तस्मिन जीवति ॥ १३ ॥ अथोपरिष्टाग्रीवांयाः कर्मसंधिसमाश्रिताम् || मर्म वायसतुण्डं तु विद्धस्तस्मिन्त्र जीवति ॥ १४ ॥ ग्रीवासंधिमनुप्राप्तमधो मस्तकपिण्डयोः ॥ मध्ये पणवकं नाम मर्म माणहरं स्मृतम् ॥ १५ ॥ वारणस्पं गुहाभागे मर्म संधिसमाश्रितम् || धमन्याध्मापनं नाम सद्यः माणहरं नृप ॥ १६ ॥ गुहाभागेऽपरमपि पतस्थानं समाश्रितम् || मर्म तस्मिन्क्षते नागः पाकलेन विपद्यते ॥ १७ ॥ गुहाभागेऽपि मध्ये तु कॅर्मसंघिसमाश्रितम् ॥ मर्म तस्मिन्क्षते नागः स्तब्धग्रीवो भवेनृप ॥ १८ ॥ शङ्खसंधिगतं यत्तदुपवाहिसमाश्रितम् ॥ मर्म तस्मिन्क्षते नागः सद्यः प्राणैर्वियुज्यते ॥ १९ ॥ मन्ययोर्मध्यतंश्चैकं गलसंधिसमाश्रितम् || [ २ शक्यस्थाने मर्म तमिर्गलं नाम सद्यः प्राणैर्वियोजयेत् ॥ २० ॥ उपरिष्टादुरोमॅन्या गलभागस्य चाप्पधः || हिक्काममैति तद्विधात्सद्यः प्राणहरं हि तत् ॥ २१ ॥ संधिमध्ये तु नागस्य उरोमणिसमाश्रितम् || तस्मिन्क्षिते द्विपं क्षिप्रं वातस्कन्दो विनाशयेत् ॥ २२ ॥ उरोमणेर्मध्यतस्तु मणिर्नाम प्रतिष्ठितम् || मर्म तद्वारुणं विद्यात्सद्यः प्राणहरं नृप २३ ॥ चतुरखं च मध्ये तु यत्राऽऽवर्तः प्रहश्यते || आवतं नाम तन्मर्म सद्यः प्राणहरं स्मृतम् ॥ २४ ॥ अथोपरिष्टात्कायस्य प्रवक्ष्यामि महीपते || आसनस्य तु पार्श्वे तु वंशनागस्य संश्रितम् ॥ २५ ॥

  • 'मण्या' इति भवेत् ।

१ क॰ फल्करं । २ क. कर्णसं° । ३ क. १स्य गुहा०° | ४ क. गूहाभागे । $ क. कर्णसं॰ । ६ क. 'तश्चिकंग° ७ ख द्वारणं ।