पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इस्त्यायुर्वेदः इत्पब्रवीत्पालकाप्यो राझाऽङ्गेन निवेदितः ॥ ४४ ॥ इति श्रीपालकाप्ये गजायुर्वेदे महाप्रवचने तृतीये शल्यस्थान एरण्डको नामैकविंशोऽध्यायः ॥ २१ ॥ अथ द्वाविंशोऽध्यायः । २२ मर्मविद्धाध्यायः ] अङ्गो हि राजा चम्पायां देवराजसमद्युतिः ।। पालकाप्ये महाराजः पप्रच्छ विजितेन्द्रियः ॥ १ ॥ मर्माणि केति नागानां शरीरेषु महामुने ।। तत्र मर्माणि सर्वाणि भागागोवरतत्त्वतः ॥ २ ॥

  • ते प्रसादाद्भगवते (?) तदिच्छामि च वेदितुम् ||

पालकाप्यस्ततस्तस्प श्रुत्वा वचनमब्रवीत् ॥ ३ ॥ शरीरस्य च वक्ष्यामि नागस्याहं महीपते ।। तद्यथा चानुपूर्वेण प्रदेशान्मर्मसंस्थितान् ॥ ४ ॥ तत्र कुम्भस्य मध्ये तु मर्मैकं मनुजाधिप । नाम्ना प्रवेपणं नाम सद्यःप्राणहरं हितम् || ५ || श्रवण (स्रो) तसी स्पातां मर्मणी द्वे महीपते ॥ सद्य:प्राणहरे विद्धि वारणस्य न संशयः ॥ ६ ॥ तथा निर्याणमध्येऽपि वालो यत्र प्रदृश्यते ॥ मर्म तद्वारणस्यापि सद्यः माणहरं हितम् || ७ || नेत्रपोरुपरिष्ट तु इपीको गुच्छामृतम् ॥ मर्म तस्मिन्क्षते नागः पञ्चत्वमुपगच्छति ॥ ८॥ अवग्रहस्य मध्ये तु कपालं यत्समाश्रितम् || सीवनीमर्म तं विद्यात्क्षते तस्मिन्न जीवति ॥ ९ ॥ मस्तकाकृति (?) यौ पिण्डौ नयोर्मध्ये तु मस्तकौ ॥ मित्रो मस्तकमध्ये तु मागः प्राणैर्वियुज्यते ॥ १० ॥ पिषस्पोपरिष्टात्तु कर्णसंघिसमाश्रितम् || कर्णश्रो (लो) तोनुगं मर्म क्षते चास्मिन्विपद्यते ॥ ११ ॥

  • ' तव प्रसादाद्भगवंस्तत् ' इति तूचितम् ॥

१ ख. गति ।' २ क. °कालुंगु ° | ३ क. मस्तुकौ | ४ क ख भिन्नौ ।