काव्यमाला।
श्रीहरिहरविरचितं
हरिहरसुभाषितम्।
पायाज्जाया पयोजातजन्मनो मन्मनो मुदम् ।
शारदा पारदासारतुल्यधावल्यधारिणी ॥१॥
गोविन्दाख्यानपीयूषप्लवैरिव सितीकृताम् ।
व्यासादिवदनाम्भोजभ्रमरीं भारतीं भजे ॥२॥
गौरीगिरीशयोरेकमङ्कालंकारकारणम् ।
मदवारिझरोद्गारमयं वस्तु वयं स्तुमः ॥ ३ ॥
गण्डकण्डूयनोत्खातमेरुमूलान्तशायिनम् ।
पायाद्गणेशितुः शेषं बिसमित्यामृशन्करः ॥ ४ ॥
स्तुमस्ते लोचने विष्णोर्विना याभ्यां जगन्त्यपि ।
अन्धीयन्त्यप्रतीकारं चारुलोचनवन्त्यपि ॥ ५॥
सामुद्रेषु सुजन्मानमेकं श्रीकौस्तुभं स्तुमः ।
नारायणोरःस्थेनापि येनालंक्रियतेऽम्बुधिः ॥ ६ ॥
नीलिमानमहं वन्दे तं देवस्य मुरद्विषः ।
तदाप्लवादिव प्राप्तं यमुना यं न मुञ्चति ॥ ७ ॥
प्रीयतां श्रीर्यया विश्वं वशीकृत्य लघूकृतम् ।
किमन्यद्विश्वधृग्वक्षःकस्तूरीमकरीकृतः ॥ ८॥
स पायात्पार्वतीपाणिः फणिकङ्कणिना धृतः ।
सात्त्विकेषु विकारेषु त्रासो यत्रास निह्नवः ॥ ९॥
शिवायाः शवतापन्नमपि यन्न जहौ हरः ।
वपुस्तन्नौमि येनान्तःस्फोटः कैटभजित्कृतः ॥ १० ॥