पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
कव्यमला।


तपत्युपरि संसारदुःखसंभाभास्वति ।
पूर्वपुण्यतरुच्छाया साध्वी जाया सुजन्मनः ।। ३० ॥

ग्रामस्याधिर्गृहव्याधिः कटुवाणी कुटुम्बिनी ।
हृत्कुठारः,कुलाङ्गारः सुतः साधुपथच्युतः ॥ ३१ ॥

विना शीलेन वनिता वाग्मिता विद्यया विना ।
विनियोगैर्विना वित्तं मास्तु कस्यापि जीविनः ॥ ३२ ॥

सत्कुलं भूषणं पुंसः सद्भार्या कुलभूषणम् ।
सत्पुत्रभूषणा भार्या पुत्राः सन्मतिभूषणाः ॥ ३३ ॥

पुन्नाम्नो नरकादेव पुत्रा न त्राणकारिणः ।
विस्मारयन्ति स्त्रीणां च नरकक्लेशमप्यमी ॥ ३४ ॥

शिशोः क्रीडनकैर्वेश्म कलालापैरपि श्रुतिः ।
वपुरङ्गरजोनिश्चेन्नाकुलं जगदाकुलम् ॥ ३५ ।।

बालैः परिहृतं वेश्म न श्मशानाद्विशिष्यते ।
यत्रस्था देहिनो नित्यं दह्यन्ते गतचेतसः ॥ ३६ ।।

न चन्द्रश्चन्द्रमाः पुत्रं चन्द्रमाहुर्मनीषिणः ।
दृष्टे स्पृष्टे श्रुते चोक्ते घ्राते यत्रेन्द्रियोत्सवः ॥ ३७ ।।

जातमात्रेण पुत्रेण कः प्रमोदो मनीषिणाम् ।
यदि नाम न विद्यादिगुणैः सार्धं स वर्धते ॥ ३८ ॥

अनिच्छन्तोऽपि विनयं विद्याभ्यासेन बालकाः ।
भेषजेनेव नैरुज्यं प्रापणीयाः प्रयत्नतः ॥ ३९ ॥

शनैः शनैर्विनीयन्ते तर्जनस्तोषणैरपि ।
नवा इवाश्वाः कुशलैर्बालाश्चपलचेतसः ॥ ४० ॥

लालयेद्बालकं तावद्यावदत्र विमुग्धता ।
राजा प्रजास्विव प्रीतिं पश्चात्प्रच्छादयेत्पिता ॥ ४१ ॥

वरं वन्ध्यत्ववादोऽपि योषित्पुरुषयोस्तयोः ।
याभ्यां लालनलुब्धाभ्यां न विनीतः स्वयं सुतः ॥ ४२ ॥