पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

श्रीहम्मीरमहाकाव्यम्
प्रथमः सर्गः



सदाचिदानंदमहोदयैक-हेतुं परं ज्योतिरूपास्महे तत् ।
यस्मिन् शिवश्रीः सरसीव हंसी विशुद्विकृद्वारिणि रंरमीति ॥१॥

तज्ज्ञानविज्ञानकृतावधानाः संतः परब्रह्ममयं यमाहुः ।
पद्माश्रयः क्लृप्तभवावसानः स नाभिभूर्वस्त्वरतां शिवाय ॥२॥

यशोदयास्फीतशुभप्रवृत्तिर्गोपालमालार्चितपादपद्मः ।
श्रीवत्सलक्ष्मा पुरुषोत्तमः श्री-पार्श्वः श्रियं वस्तनुतादतन्वीं ॥३॥

उचैर्वृषो दर्पकदर्पहारी शिवानुयातो विलसद्विभूतिः ।
शुभ्रास्थितिनैिर्दलितांधकारः श्रीशंकरो वीरविभुर्विभूत्यै ॥४॥

सञ्चक्रहृत्प्रीतिकरैः प्रभावि-प्रभाविशेषैः सुभगंभविष्णुः ।
सम्यक्प्रबोधप्रथनप्रभूष्णु र्भास्वान् सशांतिः शमयत्वघानि ॥५॥

महेशचूडामणिचुंबिपादो ऽभ्रांतस्थितिः स्फीतशुभप्रचारः ।
महामहाध्वस्ततमस्समूहः समुद्रजन्मा शशभृच्छ्रिये स्तात् ॥६॥

लसत्कविस्तोमकृतोरुभक्ति र्नालीकसंपत्सुभगंभविष्णुः ।
स्वदर्शनेन त्रिजगत्पुनाना सरस्वती नो नयतात्प्रसत्तिं ॥७॥

माधा1तृसीतापतिकंकमुख्याः क्षितौ क्षितींद्राः कतिनाम नासन् ।
तेषु स्तवार्हः परमेष सत्व-गुणेन हम्मीर महीभृदेकः॥८॥

सत्वैकवृत्तेः किल यस्य राज्य-श्रियो विलासा अपि जीवितं च।
शकाय पुत्रीं शरणागतांश्वा प्रयच्छतः किं तृणमप्यभूवन् ॥९॥

1 k