पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२
११३
नर्तकीगायनम्

कर्णोपतिभ्रमश्चक्र-व्याजात्स्माहेव तां शशी ।
ममोपमा तवास्यस्य भ्रम एव विपश्चितां ।। २१ ।।

कर्पूरपरिमाणूनां व्याजाल्लग्नानि पादयोः ।
भ्रमिभिर्भ्रामयंतीव रेजे यूनां मनांसि सा ॥ २२ ॥

मयूरासनबंधेन नृत्यंती विलुलोप सा ।
वाच्यं विधेर्मयूरस्य दुःक्रमाधानसंभवं ।। २३ ।।

अंगहारतयाहार-लता तस्यास्तनाग्रत: ।
रराज बिसवल्लीव चक्रचंच्वग्रसंस्थिता ॥ २४ ॥

लास्येन धनुषीवास्याः पश्चाद्वपुषि संनते ।
पार्ष्णिसंस्पर्शिनीवोणि जीवाभावमजीजिवत् ॥ २५ ॥

सभ्यानामसकृत्तस्यां दृष्टिरापादमस्तकं ।
चक्रेवरोहमारोहं व्रतत्यां वानरी यथा ।। २६ ।।

तांडवं निर्मिमाणेति सा तालत्रुटनक्षणे ।
अधस्थाय शकेंद्राय पश्वाद्भागमदीदृशत् ॥ २७ ॥

शकेशस्तेन दूनात्मा सभाध्यक्षमदो वदत् ।
धनुर्धरः स कोप्यस्ति वेध्यमेनां तनोति यः ॥ २८ ॥

अवदत्सोदरो राजन् गुप्तौ क्षिप्तोस्ति यः पुरा ।
उडुानसिंहस्तं हित्वा नान्येनात्र प्रभूयते ॥ २९ ।।

सद्यः शकेशोथानाय्य भंत्का निगड़संचयं ।
द्विधापि स्नेहदानेन तं सज्जांगमचीकरत् ।। ३० ।।

ततः स सज्जीभूतांगो ऽनन्यसाधारणं धनुः ।
आदायान्हाय तां पापो विव्याध व्याधवन्मृगीं ॥ ३१ ॥

मूर्छामतुच्छामृच्छंती बाणघातेन तेन सा ।
उपत्यकायां न्यपत द्दिवो विद्युदिव च्युता ॥ ३२ ॥

नृपादयस्ततो लोकाः क्षणं वैलक्ष्यलक्षिताः ।
धानुष्कतां स्तुवंतोस्य मूर्धानं दुधुवुर्मुहः ।। ३३ ।।