पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/95

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६९
अनुबन्धः ९


एवं चन्द्रार्कयोस्तु स्फुटम् , अवनिसुता-
   चार्यसूर्यात्मजानां
त्वेकं मन्दस्फुटाख्यं पुनरथ विलिखे-
   च्छीघ्रनीचोच्चवृत्तम् ।
एतद् भूमध्यकेन्द्रं, पुनरिह तु वृतौ
   यत्र तच्छीघ्रमुच्चं
तत्केन्द्रान्तकर्णेन तु विलिखतु वृतिं
   यत्र मन्दग्रहः स्यात् ॥ ५॥

तस्माच्छीघ्रोच्चकेन्द्रावधिरिह तु भवे-
   च्छीघ्रकर्णाख्यरेखा
तद्वृत्तैर्यत्क्रमश्चे    गतिख
   तत्र शीघ्रस्फुटः स्यात् ।
पूर्वत्रोक्तेव मन्दस्फुटनयसरणिः
   सौम्यभृग्वोरपि स्यात्
--किन्तु?) मध्यमेवाऽत्र तु भवति --
- - - - - - - ॥६॥




1. 2. Ms. broken.

3. The ms. ends abruptly in the middle of a line with bhavati, indicating that its archetype, too, had been defective, Possibly, the work is an octad (astaka), as several such works are, in which case, the further two verses are lost.