पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/93

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अनुबन्धः ६


ग्रहस्फुटपरिलेखः

द्रष्टा केन्द्रस्थितश्चेद् ग्रहगमनवृते
   र्द्रष्टुरन्यग्रहाणां
भुक्तिस्तुल्या प्रतीयात्, नियतमवनिम-
   ध्यादुपर्येव केन्द्रम् ।
द्रष्टा भूमौ च कल्प्यस् , तत इह तु वृति-
   र्द्रष्ट्रकेन्द्रात् ग्रहान्तात्
तस्यां मेषादिराश्यादिकविहगगति
   र्द्रष्टुरेति स्फुटत्वम् ॥ १ ॥

स्वोच्चव्यासार्धवृत्तं प्रथममभिलिखेत्
   तच्च भूमध्यकेन्द्रम्
यत्रोच्चस्तत्र नेम्यां भवति खलु तदा
   तत्र केन्द्रं विधाय ।
त्रिज्यासूत्रेण वृत्तं विलिखतु विहगे
   यस्य नेम्यां तु मध्यो
यत्र स्यादुच्चकेन्द्रात्प्रभृति तदवधिः
   कर्णारेखा च कार्या ॥ २ ॥


 Ms. Ker. Univ. C. 809-C, written in continuation of Sphutanirnaya (Text Ms. B) and Tantrasangrahaparyayaih Sphutanirnaya samprokta-Bhagananayanam (App. III, above).