पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

40 सौन्दरनन्दं काव्यम् यथैष्यनाश्यानविशेषकायां मयीति यन्मामवद्च्च साश्रु । पारिप्लवाक्षेण मुखेन बाला तन्मा वचोऽद्यापि मनो रुणद्धि ॥१८॥ बद्वासनं पादपनिर्झरस्थः स्वस्थो यथा ध्यायति भिक्षुरेषः । शक्रः क्वचिन्नाहमिवैष नूनम् शान्तस्तथा तृप्त इवोपविष्टः ॥२०॥ पुंस्कोकिलानामविचिन्त्य घोषं वसन्तलक्ष्म्यामविचार्य्य चक्षुः । शास्त्रं यथाभ्यस्यति चैष युक्तः शङ्के प्रियाकर्षति नास्य चेतः ॥२१॥ अस्मै नमोस्तु स्थिरनिश्चयाय निवत्तकौदहलविस्मयाय । शान्तात्मनेऽन्तर्गतमानसाथ चङ्क्रम्यमानाय निरुत्सुकाय ॥२२॥ निरीक्षमाणस्व जलं सपद्मम् वनश्च पुण्यम् परपुष्टजुष्टम् । कस्यास्ति वीर्य्यं नवयौवनस्य मासे मधौ धर्म्मसपत्नभूते ॥२३॥ भावेन गर्व्वेण गतेन लक्ष्म्या स्मितेन कोपेन मदेन वाग्भिः । जहुः स्त्रियो देवनृपर्षिसंघान् कस्माद्धि नास्मद्विधमाक्षिपेयुः ॥२४॥ कामाभिभूतो हि हिरण्यरेताः स्वाहां सिषेवे मघवानहत्त्यां । सत्वेन सर्गेण च तेन हीनः स्त्रीनिर्जितः किं बत मानुषोऽहम् ॥२५॥ सूर्य्यः स रम्भां प्रति जातरागस्तत्प्रीतया नष्ट इति श्रुतं नः । यामश्वभूतोऽश्ववधूं समेत्य र(व)तोऽश्विनौ तौ जनयाम्बभूव ॥२६॥ स्वीकारणं वैरविषकबुद्ध्योर्वैवस्वतान्योश्चलितात्मधृत्योः । बहूनि वर्षाणि बभूव युद्धं कः स्त्रीनिमित्तं न चलेदिहान्यः ॥२७॥ भेजे श्वपाकौं मुनिरत्नमालां कामाद् वशिष्टश्च स सद्वरिष्टः । यस्यां विवस्वानिव भूजलादः सुतः प्रसूतोऽस्य कपिञ्जलादः ॥२८॥ पराशरः शापशरस्तथर्षिः कालौ[ँ] सिषेवे झषगर्भयोनिं । Both P. M. and P. L. M. ***R1A1 T.