पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमः सर्गः 41 अतोऽस्व यस्यां सुषुवे महात्मा द्वैपायनो वेदविभागकर्त्ता ॥२८॥ द्वैपायनो धर्म्मपरायणश्च रेमे समं काशिषु वेद्मवध्वा । यथा हतोऽभूत् चलनूपुरेण पादेन विद्युल्लतयेव मेघः ॥३०॥ तथाङ्गिरा रागपरीतचेताः सरस्वतौ(ं] ब्रह्मसुतः सिषेवे । सारखतो यत्र सुतोऽस्य जज्ञे नष्टस्य वेदस्य पुनःप्रवक्ता ॥३१॥ तथा नृपर्षेर्दिलिपस्य य(ज)ज्ञे स्वर्गस्त्रियां काश्यप भागतास्थः । श्रुचं गृहीत्वा स्रवदात्मतेजः चिक्षेप वहावसितो यतोऽभूत् ॥३२॥ तथाङ्गदोऽन्त(ं ]तपसोऽपि गत्वा कामाभिभूतो यमुनामगच्छत् । धौमत्तरं यत्र रथौतरं स सारङ्गजुष्टं जनयाम्बभूव ॥३३॥ निशाम्य शान्ता नरदेवकन्यां वनेऽपि शान्तेऽपि च वर्तमानः । चचाल धैर्य्यात् मुनिर्ऋष्यशृङ्ग: शैलो महौकम्प इवोच्चशृङ्गः ॥३४॥ ब्रह्मर्षिभावार्थमपास्य राज्यं भेजे वनं यो विषयेष्वनास्यः । स गाधिजश्चापह्रतो धृताच्या समा दशैक दिवसं विवेद ॥३५॥ तथैव कन्दर्पशराभिसृष्टो रम्भां प्रति स्थूलशिरा मुमूर्छ । यः कामरोषात्मतयानपेक्ष( :] शशाप तामप्रतिगृह्यमाणः ॥२६॥ प्रमत्वरायां च रुरुः प्रियायां भुजङ्गमेनापहृतेन्द्रियायां । संदृश्य संदृश्य जधान सर्व्वेन्द्रियं न रोषेण तपो ररक्ष ॥३०॥ P. M. यंस्थासघवे । P. L. M. lacuna P. M. वेमवर्धा। ३P. M. वहिं T. ४ P. M. धैर्यन्मनि ऋषिष्ट: P. L. M. धैर्यान्मुनि ऋष्यश्टङ्गः । ५ P. M. दशौक T. Haffi (both P. L. M. and P. MIT .P. M. तथोररकं ।