38 सौन्दरनन्दं काव्यम् सप्तमः सर्गः लिङ्गं ततश्चास्तु विधिप्रदिष्टम् गात्रेण बिभ्रन्न तु चेतसा तत् । भार्य्यांगतैरेव मनोवितर्कैः यो ह्रीयमानो न ननन्द नन्दः ॥ १ ॥ स पुष्यमासस्य च पुष्पलक्ष्म्या सर्व्वाभिसारेण च पुष्पकेतोः । यानौयभावेन च यौवनस्य विहारसंस्थो न शमं जगाम ॥२॥ स्थितः स दीनः सहकारवीथ्यामालीनसंमूर्च्छितषट्पदायाम् । भृशं जजृम्भे युगदीर्घबाहुः ध्यात्वा प्रियां चापमिवाचकर्ष ॥३॥ स पातकक्षोदमिव प्रतीच्छ(न्) चूतद्रुमेभ्यस्तनुपुष्पवर्षम् । दीर्घं निशस्वास विचिन्त्य भार्य्यां नवग्रहो नाग इवावबुद्धः ॥४॥ शोकस्य हर्ता शरणागतानाम् शोकस्य कर्ता प्रतिगर्व्वितानाम् । अशोकमालम्ब्य स जातशोकः प्रियां प्रियाशोकवनां शुशोच ॥५॥ प्रियां प्रियायाः प्रतनुं प्रियङ्गुं निशाम्य भीतामिव निष्पतन्तीम् । सस्मार तामश्रुमुखीं सबाध्यः प्रियां प्रियङ्गुप्रसवावदाताम् १६ ॥ पुष्पावनद्धे तिलकद्रुमस्य दृष्ट्वान्यपुष्टां शिखरे निविष्टाम् । सङ्कल्पयामास शिखां प्रियायाः शुक्लांशुकाट्टालमपाश्रितायाः ॥७॥ लता प्रफुल्लामतिमुक्तकस्य चूतस्थ पार्श्वे परिरभ्य जाताम् । निशाम्य चिन्तामगमत् तदैवं श्लिष्टा भवेत् मामपि सुन्दरीति ॥८॥ पुष्पै(र)राला अपि नागवृक्षा दान्तः समुङ्गैरिव हेमगर्भैः । कान्तारवृक्षा इव दुःखितस्य न चक्षुराचिक्षिपुरस्थ तच ॥८॥ १ P. M. इव नागावबुद्धः T. २P. M. प्रियं भूःr. ३ P. M. प्रियां प्रियं सप्रसवावदाता T. 8 P. M. पुष्योक्भरगा। P. M. T P. L. M. lacuna.
पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/८५
दिखावट