पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठः सर्गः 37 मनस्विनी रूपवती गुणाढ्या हृदि क्षते काच्च हि नाश्रु मुञ्चेत् ॥४१॥ अथापि किञ्चित् व्यसनं प्रपन्नो मा चैव तद्भूत् सदृशोऽत्र बाष्पः । अतो विशिष्टं न हि दुःखमस्ति कुलोङ्गतायाः पतिदेवतायाः ॥४२॥ अथ त्विदानौं लडितः सुखेन स्वस्थः फलस्थो व्यसनान्यदृष्ट्वा । वीतस्पृही धर्ममनुप्रपन्नः किं विक्लवे रोदिषि हर्षकाले ॥४३॥ इत्येवमुक्तापि बहुप्रकारम् स्नेहात् तथा नैव धृतिं चकार । अथापरा तां मनसोनुकूलं कालोपपन्नम् प्रणयादुवाच ॥४४॥ ब्रवीमि सत्यं सुविनिश्चितं मे प्राप्तं प्रियं द्रक्ष्यसि शीघ्रमेव । त्वया विना स्यास्यति तच नासौ सत्त्वाश्रयश्चेतनयेव हीनः ॥ ४५ ॥ अङ्केपि लक्ष्म्याः न स निर्वृतः स्यात् त्वं तस्य पार्श्वे यदि तत्र न स्याः । आपत्सु कृच्छ्रास्वपि चागतासु त्वां पश्यतस्तस्य भवेन्न दुःखम् ॥४६॥ त्वं निर्वृतिं गच्छ नियच्छ बाष्पम् तप्ताश्रुमोक्षात् परिरक्ष चक्षुः । यस्तस्य भावस्त्वयि यश्च रागो न रंस्यते त्वद्विरहात् स धर्म्मे ॥४७॥ स्यादत्र नासौ कुल्लसत्त्वयोगात् काषायमादाय विहास्यतीति । अनात्मनादाय गृहोन्मुखस्य पुनर्विमोक्तुं क इवास्ति दोषः ॥४८॥ इति युवतिजनेन सान्त्व्यमाना ह्रतदया रमणेन सुन्दरी सा। द्रमिडमभिमुखे पुरेव रम्भा क्षितिमगमत् परिवारितापपरोभिः ॥४६॥ सौन्दरनन्दे महाकाव्ये भार्य्याविलापो नाम षष्ठः सर्गः । १ P. M. चलितः । २P. M. विज्ञाया। ३P. M. स्तदा ।