पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सौन्दरनन्दम् काव्यम्

प्रथमः सर्गः

ॐ नमो बुद्धाय

गोतमः कपिलो नाम मुनिर्धर्म्मभृतां वरः ।
बभूव तपसि श्रान्तः काक्षौवानिव गोतमः ॥१॥
अभिश्रियत् यस्य ततं दीप्तं काश्यपवत्तपः ।
सुश्रियाय च तहद्धौ सिद्धिं काश्यपवत् पराम् ॥२॥
हविषे यश्च स्वात्मार्थं गामभुक्षत् वशिष्ठवत् ।
तपःशिष्टेषु शिव्येषु गामधु(धो)क्षत् वशिष्ठवत् ॥३५
माहात्म्यात् दौर्घतपसो यो द्वितीय इवाभवत् ।
तृतीय इव यश्चाभूत् कायाङ्गिरसयो र्द्धिया ॥४॥
तस्य1 विस्तीर्णतपसः पार्श्व हिमवतः शुभे ।
क्षेत्रं चायतनञ्चैव तपसामाश्रयो3ऽभवत् ॥५॥
2चारूवोरुत्तरुवनः प्रस्निग्धमृदुःशाद्वलः ।
हविर्धूमवितानेन यस्मदाभ्र इवावभौ ॥६॥
मृदुभिः सैकतैः4 स्निग्धैः केसरास्तरपाण्डुभिः5 ।
भूमिभागैरसंकीर्णैः साङ्गराग6 इवाभवत् ॥७॥


१ P.M. तस्या T.

P. M. T. ५ P. M. केसरारुणपाण्डुभिः । RP. M, UT. 8 P. M. स्पैकटः T. ६ P. M. साराग।