पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सौन्दरनन्दं काव्यम्


शुचिभिस्तीर्थसंख्यातैः पावनेर्भावनैरपि ।
बन्धुमानिव यस्तस्थौ सरोभिः ससरोरुहैः ॥८॥
पर्याप्तफलपुष्पाभिः सर्व्वतो वनराजिभिः ।
शुशुभे ववृधे चैव नरः साधनवानिव ॥६॥
नौवारफलसन्तुष्टैः स्वस्यैः शान्तारनुत्सुकैः ।
आकीर्णोऽपि तपोभृङ्गैः शून्यशून्य इवाभवत् ॥१०॥
अग्नीनाम् हूयमानानाम् शिखिनाम् कूजतामपि ।
तीर्थानाञ्चाभिषेकेषु शुश्रुवे तत्र निस्वनः ॥११॥
विरेजुः हरिणा पत्र सुप्ता मेध्यासु वेदिषु ।
सलाजैर्माधवीपुष्पैरुपहाराः कृता दूव ॥१२॥
अपि क्षुद्रभृगा यत्र शान्ताश्चेरुः समं मृगैः ।
शरण्येभ्यस्तपस्विभ्यो विनयं शिक्षिता दूव ॥१३॥
सन्दिग्धेऽपि पुनर्भावे विरुद्धेवागमेष्वपि ।
प्रत्यक्षिण इवाकुव्वंस्तपो यत्र तपोधनाः ॥१४॥
यत्र स्म मौयते ब्रह्म कैश्चित् कैश्चित् न मौयते ।
काले निमौयते सोमो न चाकाले प्रमौयते ॥१५॥
निरपेक्षा[:]शरीरेषु धर्मो यत्र स्वबुद्धयः ।
संहृष्टा व यत्नेन तापसास्तेपिरे तपः ॥१६॥


१P. M. मुस्थैः ।

P. M. प्रदक्षिणा । ५ P. M. निलौयते। ७.P. M. प्रलोयते । २ P. M. सप्तमध्यास । & P. M. लोयते। ६ P. M. भूमौ । P. M. यम.