पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सौन्दर नन्दं काव्यम् प्रसीद सौदामि विमुञ्च मां मुने वसुन्धराधैर्य्य न धैर्यमस्ति मे । असून् विमोक्षामि विमुक्तमानसः प्रयच्छ वा वागमृतं मुमूर्षवे ॥५४॥ अनर्थभोगेन विघातदृष्टिना प्रमाददंष्ट्रेण तमोविषाग्निना । अहं हि दष्टो हृदि मन्मथाहिना विधत्स्व तस्मादगदं महाभिषक् ॥५५॥ अनेन दष्टो मदनाहिनाऽहिना न कश्चिदात्मन्यनवस्थितः स्थितः । मुमोह बोड्यो (र्हि] चलात्मनो मनो बभूव धौमांश्च स शन्तनुस्तनुः॥५६॥ स्थिते विशिष्टे त्वयि संश्रये अये यथा न यायो(मौ) बहुसंदिशं दिश यथा च लब्धा व्यसनक्षयं क्षयं व्रजामि तन्ने कुरु शंसतः सतः ॥५॥ ततो जिघांसुर्ह्रदि तस्य तत्तमस्तमीनुदो नक्रमिवोत्थितं तमः । महर्षिचन्द्रो जगतस्तमोनुदस्तमःग्रहीणो निजगाद गौतमः ॥५८॥ धृति परिश्वज्य विधूय विक्रियां निगृह्य तावत् श्रुतिचेतसौ श्रृणु । इमा यदि प्रार्थयसे त्वमङ्गना विधत्स्व शुल्कार्थमिहोत्तमं तपः ॥५६॥ 'इमा हि शक्यन्न बलान्न सेवया न संप्रदानेन न रूपवत्तया । इमा हियन्ते खलु धम्मचर्य्यया स चेत् प्रहर्षश्चर धर्म्ममावृतः ॥६॥ इहाधिवासो दिवि दैवतैः समं वनानि रम्याण्घजराश्च योषितः । इदं फलं स्वस्य शुभस्य कर्मणः न दत्तमन्येन न वाप्यहेतुतः ॥६१॥ क्षितौ मनुष्यो धनुरादिभिः श्रमैः स्त्रियः कदाचिद् विलभेत वा न वा । असंशयं यत्त्विह धर्म्मचर्य्यया भवेयुरेता दिवि पुण्यकर्मणः ॥६२॥ तदप्रमत्तो नियमे समुद्यतो रमस्व यद्यपरसोऽभिलिपसे । अहं च तेऽत्र प्रतिभूः स्थिरे व्रते यथा त्वमाभिर्नियतं समेष्यसि ॥६॥ १ P. L. M. इमा हि शकय एव गात्र सेवया ।