पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दशमः सर्गः ६५ दोषा[ं]श (स्व)काया[द्] भिषगुज्जिहीर्षु भूयो यथा क्लेशयितुं यतेत । रागं तथा तस्य मुनिर्जिघांसुर्भूयस्तरं रागमुपानिनाय ॥४३॥ दीपप्रभां हन्ति यथा च काले सहस्ररश्मेरुदितस्य दीप्तिः । मनुष्यलोके धुतिमङ्गनानामन्तर्दधात्यपमरसां तथा श्रीः ॥४४॥ महच्च रूपं स्वणु हन्ति रूपं शब्दो महान् हन्ति च शब्दमल्पम् । गुर्व्वो रुजा हन्ति रुजां सुम्सद्दौ सर्व्वो महान् हेतुरणेर्वधाय ॥४५॥ मुनेः प्रभावाञ्च शशाक नन्दस्तद्दर्शनं सोढुमसह्यमन्यैः । अवीतरागस्य हि दुर्बलस्थ मनो दहेदपरसां वपुःश्रीः मत्वा ततो नन्दमुदौर्णरागं भार्य्यानुरोधादपवृत्तरागम् । रागेेण रागं प्रतिहन्तुकामो मुनिर्विरागो गिरमित्युवाच ॥४७॥ एताः स्त्रियः पश्य दिवौकसस्त्वं निरीक्ष्य च ब्रूहि यथाथ तत्त्वम् । एताः कथं रूपगुणैर्मतास्ते स वा जनो यत्र गतं मनस्ते ॥४८॥ अथाारस्येव निविष्टदृष्टौ रागाग्निनान्तर्हृदये प्रदीप्तः । सगद्गदं कामविषक्तचेताः कृताञ्चलिर्वाक्यमुवाच नन्दः ॥४८॥ हर्यङ्गनासौ मुषितैकदृष्टिर्यदन्तरे स्थात् तव नाथ वध्वाः । तदन्तरेऽसौ कृपणा वधूस्ते वपुमतीर परसः प्रतीत्य ॥५०॥ आस्या यथा पूर्वमभून्न काचित् अन्यासु मे स्त्रीषु निशान्य भार्य्याम् । तस्यां तथा संप्रति काचिदास्वा न मे निशाम्यैव हि रूपमासाम्॥५१॥ यथा प्रतप्तो मृदुनातपेन दह्येत कश्चिन्महतानलेन । रागेण पूर्व्वं मृदुनाभितप्तो रागाग्निनानेन तथाभिदह्ये ॥५२॥ वाग्वारिणा मां परिषिञ्च तस्माद् यावन्न दह्ये स इवासशत्रुः । रागाग्निरद्यैव हि मां दिधक्षुः कक्षं स वृक्षाग्रमिवोत्थितोऽग्निः ॥५३॥ 3