पृष्ठम्:सूक्तिसंग्रहः.pdf/३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीः ॥

कविराक्षसकृतः ।

सूक्तिसंग्रहः ।

प्रथमा पद्धतिः ।

त्रयीयुवतिसीमन्तसीमासिन्दूरबिन्दवः ।
संसाराब्धिं तरेयुर्वः कंसारेः पादपासवः ॥ १ ॥
सुपार्थिवैश्च पद्मैश्च सर्वतोमुखभूतिभिः ।
प्रसारिते मित्रकरे त्यज्यन्ते कोशसंपदः ॥ २ ॥
हतकामं चिरं लोकं प्रभोरुग्रस्य वीक्षणात् ।
कुर्याद्यो निजया लक्ष्म्या सकामं परमः पुमान् ॥ ३ ॥
विशिष्टं सर्वभूतेभ्यः श्रोतव्यं गुणवत्तया ।
न त्यजेद्विभुता नित्यमाकाशमिव भूमिपम् ॥ ४ ॥
काले मृदुश्च तीक्ष्णश्च नृपः स्याद्यदि सूर्यवत् ।
उदयः क्रियते तस्य मण्डलेनानुरागिणा ॥ ५ ॥
नलिनानां नृपाणां च श्रियं हि महतामपि ।
मित्रप्रतापो भूयोऽपि वर्धयत्यनिशोज्ज्वलाम् ॥ ६ ॥
यशोदयाशीलरूपमाधुर्यैरपि सर्वतः ।
स बालोऽपि पुमान्वृद्धः साधुवृन्दावने रतः ॥ ७ ॥
आरभ्यते महत्कार्यं यैः क्षुद्रैरपि पार्थिवैः ।
ते चक्रवर्तिनो भूत्वा जायन्ते भद्रभाजनम् ॥ ८ ॥