पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः । २१७ अन्नं पृष्ठगते मृदुस्फुटखगात् स्पष्टग्रहे इति । इदन्स्वेकवाक्यतापन्नं न विरुद्धम् ॥ १९१ ॥ एतच्छेका फलदानक्रमोपपत्ति लोकत्रयेणा- मन्दनीचोपचहते यतो मध्यमो याति तेनोक्तरीत्या मृदूत्थेन सः । संस्कृतोऽवास्तवो मध्यवत् स्यात् स्फुटो मन्दपूर्व: स्वकक्षागतोऽस्मात् कृते ।। १९२ || शीघ्रनीचोच्चत्ते चलो चाहो मन्दपूर्व: स्फुटः शीघ्र केन्द्रान्तरे । पूर्वमार्गेण देयो ह्ययं तत्र तु स्पष्टतारात्मकः शून्यवाणे भवेत् || १९३ ॥ अतो मृदुस्पष्टविद्दीनशीघ्र- तु] [भषेषञ्चल केन्द्रमस्मात् । उक्तपिपश्या चपलं फलं यत् तत् संस्कृतो मन्दखगः स्फुटः सः ॥ १९४ ॥ यतः कारणात् मध्यमो ग्रहो मन्दनोचोच्चवृते गच्छति तेन कारणेन उक्तरीत्या मन्दफलानयनप्रकारेण मदूत्थेन मन्दोच्चोत्प न्नेन मन्दफलेन सः मध्यम अवास्तवः कक्षावृत्तस्थचिह्नात्मकः संस्कृतः केन्द्रवशाहीनयुतः मन्दपूर्वः रुफुटः मन्दस्पष्ट इत्यर्थः । स्वकक्षावृत्तस्थो मध्यमवदवस्तुभूतः स्यात् । अस्मात् कक्षावृत्त. स्थमन्दरूपष्टचिह्नात् चिह्न केन्द्रं कृत्वेत्यर्थः । कृते शोघ्रनीचोच- वृत्ते शीघ्रोच्चान्मन्दस्पष्टो ग्रहः शोघ्र केन्द्रान्तरे पूर्वमार्गेण २८