अथ ग्रहानयनाध्यायः ।
तत्राहर्गणानयनमाह ।
कथितकल्पगतोऽर्कसमागणी |
वा० भा०-स्पष्टम् ।
अत्र वासना । कल्पगताब्दा द्वादशगुणिता रविमासा जातास्ते चैत्रादिगतचान्द्रतुल्यैः सौरैरेव युतास्त्रिशद्गुणा इष्टमासप्रतिपदादिगततिथितुल्यैः सौरैरेव दिनैर्युताः ॥ एवं ते सौरा जातास्तेभ्यः पृथक् स्थितेभ्योऽधिमासानयनं त्रैराशिकेन ॥ यदि कल्पसौरदिनैः कल्पाधिमासाः लभ्यन्ते तदैभिः किमिति ॥ फलं गताधिमासाः । तैदिनीकृतैः पृथक् स्थितः सौराहर्गणः सहितश्चान्द्रो भवति । ततः सौरचान्द्रान्तरमधिमासदिनान्येव । अष्थ चान्द्राद् द्युगणादवमानयनं त्रैराकिशेन । यदि कल्पचान्द्राहैः कल्पावमानि लभ्यन्ते तदैभिः किमिति ॥ फलं गतावमानि ॥ तैरूनश्चान्द्रोऽहर्गणोऽतः कर्तव्यः ॥ यतः सावनचान्द्रान्तरेऽवमान्येव ॥ एवं कृते सति रवेर्मध्यमः सावनाहर्गणो भवति न स्फुटः । मध्यमस्फुटाहर्गणयोर्भेदो गोले कथितः । स चाहर्गणोऽकादिः । यतः कल्पादौ रविवासरः । अत्राऽधिमासानयनेऽधिमासशेषमनष्टं स्थाप्यम् ॥ न पुनस्तस्माद्दिनाद्यवयवा ग्राह्याः ॥ एवमवमशेषमपि ॥ न तस्माद्द्घटिकादिकं ग्राह्यम् ॥ नन्वनुपातः सावयवो भवति कुतस्तदवयवा न ग्राह्याः । तत्कारण गोले कथित व्याख्यातव्च ॥ १-३ ॥
वा० वा०-अथाहगणानयनमाह कथितकल्पगतोऽर्क इति । |
१. सि० शि० गो० म० वा० १६-१८ श्लो० । प्रकाशितपुस्तकेषु 'दशग्रतः' इति पाठी विद्यते । क० ख पु० ‘दर्श तितो' इति ।