वा० भा०--अत्रोपपतिः । चन्द्रभगणा रविभागणोनाश्चन्द्रमासा भवन्ति । तेऽधिमासज्ञानार्थं रविमासोनाः कार्याः । रविमासास्तु द्वादशगुणितै रविभगणैर्भवन्ति । पूर्वमेकगुणैरूनां इदानीं द्वादशगुणैश्च ॥। अतस्त्रयोदशगुणै रविभगणैरूनाश्चन्द्रभगणा अधिम। सा भवन्तीत्युपपन्नम् उत्तरार्धेन केन्द्रस्वरूपमुक्तम् ॥ १४ ।।
इति भगणाध्यायः ॥
वा० वा०-इदनीमन्यदप्याह इन्दुमण्डलेति ।
अत्रोदाहरणम् । एकस्मिन् वर्षे चन्द्रचक्राणि १३॥४॥१२॥४६॥३०॥ गुणेन्दुसङ् गुणरविचक्राणि १३विवरम्॥०॥४॥१२॥४६॥३०॥ भगणस्थाने ये तेऽधिमासाः । पुनर्य च्छेषं सावयवं तत्त्रशता सङ्गुण्य विकलासु षष्टया विभज्य लब्धं कलासु निक्षिपेत्॥ एवं कलासु षष्टया, भागेषु त्रिशता, राशिषु द्वादशभिविभज्योपर्युपरि नियोज्य तद् भगणः स्थाने यत् ते दिवसाः । पुनः शेषं षष्टव्या सङ्गुण्योपर्युपरि नियोजनेन भगणस्थाने यत्ताः घटिकाः भवन्ति, एवं पलान्यपि । एवं जातमेकस्मिन् वर्षेऽधिमासाद्यम् ०॥११॥३॥५२॥३o॥
अत्र वासना केवलयोर्यावदन्त ? तावदेव केनचित्संयुक्तयोरपि स्यादिति सौरमासः चान्द्रमासयोः सूर्यभगणा योजिताः । तत्र रविभगणोनचन्द्रभगणात्मके चान्द्रमासे यावद्रविभगणा योज्यन्ते तावच्चन्द्रभगणा एव भवन्ति । तथैव द्वादशगुणरविभगणाः त्मकेषु सौरमासेषु यावद्रविभगणाः क्षिप्यन्ते तावत्त्रयोदशगुणाः सूर्यभगणा भवन्ति । ततस्तेषामन्तरं कृतम् । यतः सौरचान्द्रमासानामन्तरमधिमासाः ॥ १४ ॥
इति कृष्णदैवज्ञात्मजनृसिहकृतौ सिद्धान्त [ वासना ] वात्तिके भगणज्ञानम् ॥
--:०:--
खखाड्रषुपक्षाश्विवेदाङ्ग:रामा ३६४२२५६०० |