पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/96

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१
मध्यमाधिकारे भगणाध्यायः

एभिरूनाः भभ्रमाः संशोध्यमानमृणं धनं भवतीति जाताः सावना । चंमा १ भभ्रमाः १ चंभ १ ॥ एभिरूनाश्चान्द्रन्द्राहा जाताः चंभ १ चंदि १ चंमा १ भभ्र १ । एवं क्षयाहा भवन्तीत्युपपन्नम् । एतच्छिष्याणां धनर्णयोगवियोगकौशलार्थ दशितम्। १३ ॥

 वा० वा०-प्रकारान्तरेणाह अन्तरं तरणि चन्द्रे ति

 'प्राग्गमनशीलयोः सूर्याचन्द्रमसोः प्रतिदर्श2 यो योगः स त्वेकभगणतुल्यान्तरमन्तरेणानुपपद्यमान एकस्मिन् चान्द्रे मासि भगणतुल्यमन्तरं गमयति । ततोऽनुपातः (यदि)एकेन भगणान्तरेणीको मासस्तदा कल्पभगणान्तरेण किमिति जाताःशशिमासाः । रविभगणोनाशचन्द्रभगणास्ते चन्द्रमासाः भवन्तीति सिद्धमस्ति । वैपरीत्येन चन्द्रमासोनाशचन्द्रभगणास्ते रविभगणाः । रविभगणोना भभ्रत्रमास्ते सावनाः । सावनोनाश्चान्द्रास्ते दिनक्षयाः भवन्ति । यतः सावनचान्द्रान्तरमवमानि । अत्राद्याक्षराण्युपलक्षणार्थ लेख्यानि । यानि ऋणगतानि तानि 3ऊध्र्वबिन्दूनि च कार्याणीत्यव्यक्तयुक्तचा लिख्यते।

 चं० मा १ चं० भ० १ *एते रविभगणाः खण्डद्वयात्मकाः । एभिरूना भभ्रमा: जाता: खण्डंत्रयात्मक: सावना: |

 संशोध्यमानं' स्वमृणत्वमेति स्वत्वं क्षयस्तद्युतिरुक्तवच्च ॥

 ६ ‘योगे युतिः स्यात् क्षययोः स्वयोर्वा धनर्णयोरन्तरमेव योगः' ।

 इत्यनेन चां० मा १ चं० भ० १, भभ्र १ । एतदूनाश्चान्द्रास्ते जाता दिनक्षया: खण्डचतुष्टयात्मकाः ।

 चां मा०१ चंभ०१ भभ्र० १ चांदि १ । अत्र धनयोयोंगश्चन्द्र७चक्रदिवसैक्यम् । एतदूनमृणेन* चन्द्रमासभभ्रमयोगेनातः सर्वमवदातम् ।

 चन्द्रसावनयुतेन्दुमासकास्ते भवन्ति रविसावनास्तु तैः ।

 वजितानि शशिनो दिनानि वा सम्भवन्ति खलु ते दिनक्षयाः ।

 अयमर्थः चन्द्रभगणोना भभ्रमास्ते चन्द्रसावनास्तेषु चान्द्रमासेषु योजितेषु रविसावना भवन्ति । ततो दिनक्षयसाधनं सुगमम् ॥ नवीनोऽयं प्रकारः । चन्द्रचक्रदिवसैक्यमित्यत्र चन्द्रभगणा एव दिनानि तदधो यद्राश्यादि तत्पञ्चगुणं विधाय राशिस्थाने यद्भवति तदेव घटिकाः ।तस्माद*प्यधो यदंशादि सम्पद्यते तद्द्वगुणं १° विधाय यदंशस्थाने तदेव पलानि शेषाणि विपलानीति प्रकल्प्य चन्द्रचक्रदिवसैक्यं कार्यम् । यद्वा चन्द्रराश्याद्यस्य** कलाः कार्याः । ततोऽनुपातः (यदि) चक्रकलाभिः षष्टि-


१. प्रगमन ग पु० । २. दर्श ग पु० 1
३. ऊध्र्व क ख पु० ४. ये ते ग पु० ।
५. बी० ग० धनर्णव्यवकलने १ श्लो० । ६. बी० ग० धनर्णसङ्कलने श्लो० ।
७. श्चंद्रक्रादि ग पु० । ८. मृनोन ग पु० ।
९. दथधो क ख ग पु० । १०. द्विगुण ग पु० ।
११. श्याकाला ग पु० ।