पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/95

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०
सिद्धान्तशिरोमणौ ग्रहगणिते

 वा० भा०-एषामुपपत्तिः प्रोगेवोक्ता । एकस्मिन् रविवर्षे यावन्तो भभ्रमाः स्युस्तावन्त एवकोना रविसावनदिवसा भवन्ति । यतो रविः प्राग्गत्या एकं पर्ययं गतः । अतो भगणसंख्ययोना भभ्रमाः क्वहा भवन्ति । एवमन्येषामपि ग्रहाणां कुदिनानि स्युरित्युपपन्नम् ॥ ९ ॥

अथाधिमासान् न्यूनाहाँश्चाह ।

लक्षाहता देवनवेपुचन्द्राः १५९३३०००००
कल्पेऽधिमासाः कथिताः सुधीभिः ।
दिनक्षयास्तत्र सहस्रनिध्नाः
खबाणबाणाश्व्यहिखेषुदस्त्राः २५०८:२५५००० ० ॥ १० ॥

 वा० भा०-अत्रोपपतिः । अत्र प्रकृतास्तावद्रविमासास्तेभ्यश्चान्द्रमासा यावद्धिप्रधिकास्तेऽधिमासा उच्यन्ते । एवं प्रकृतानां सावनानां चान्द्राणां चान्तरमवमान्युच्यन्ते । सावनदिनेभ्यशचान्द्राहा यावद्भिरधिकास्ते दिनक्षयाः । अतस्तेषामन्तरमेतावद्भवतीत्युपपन्नम् ॥ १० । इदानीमधिमासेन्दुदिनावमानि प्रकारान्तरेणाह ।

रवे: कोटिनिघ्नाः कृताटेन्दुबाणाः ५१८४०००००००
सुराग्न्यब्धिरामेषवो लक्षनिघ्नाः ५३४३३३००००० ।।
शशाङ्कस्य मासाः पृथक् सूर्यमासै-
र्विहीनास्तु कल्पेऽथ वा तेऽधिमासाः ।। ११ ।।

अधिदिनैर्दिनकृद्दिनसञ्चयः सहित इन्दुदिनान्यथ तानि वा ।
विरहितानि च तानि दिनक्षयैः क्षितिदिनान्यत उत्क्रमतोऽपरम् ॥ १२ ॥

 वा० भा०-एवमनया वासनया पठिताकचन्द्रमासान्तरमधिमासा: ।। कि पाठेनेति वा शब्दार्थः । एवमधिमासदिनैः सहिताः सौराहाश्चान्द्राहा भवन्ति । कि तत्पाठेन वा । तेऽवमैरूनाः क्वहाः स्युः ।। ११-१२ ।।

 वा० वा०-एषां वासना भाष्ये स्पष्ट ॥ ८-१२ ॥

इदानी प्रकारान्तरेण चान्द्रमासान् दिनक्षयाँश्चाह ।

अन्तरं तर्राणिचन्द्रचक्रजं यद्भवेत् स विधुमाससञ्चयः ।
चन्द्रचक्रदिवसैक्यमूनितं चन्द्रमासभदिनैर्दिनक्षयाः ॥ १३ ।।

 वा० भा०-पूर्वार्धस्य वासना प्रागेवोक्ता । अथ चन्द्रचक्रदिनैक्ये चन्द्रमासभदिनैक्येन वजिते क्षयाहाः स्युः ।

 अत्र वासना । चन्द्रभगणा रविभगर्णरूनाश्चन्द्रमासाः स्यु । अतो विपर्ययाच्चन्द्रमा सोनाशचन्द्रभगणा रविभगणा भवन्ति । तैरूना भभ्रमाः सावनदिवसा भवन्ति । तैरूनाशश्चान्द्राहा: क्षयाहा भवन्ति । एतदव्यक्तस्थित्या लिख्यते । चश्मा १ चंभ १ । एते किल रविभगणाः ।