いくく सिद्धान्तशिरोमणी गोलाध्याये
चापान्तरस्य जीवा स्यात् तयोरन्तरसंमिता ।
अन्यज्यासाधने सम्यगियं ज्याभावनोदिता । २२ ।
समासभावना चैका तथान्यान्तरभावना । ।
आद्यज्याचापभागानां प्रतिभागज्यकाविधिः ॥ २३ ।
या ज्यानुपाततः सेष्टव्यासार्धे परिणाम्यते ।
आद्यदोःकोटिजीवाभ्यामेवं कार्या ततो मुहुः ।। २४ ।।
भावना स्युस्तदग्रज्या इष्टे व्यासदले स्फुटाः ।
स्थूलं ज्यानयन पाठ्यामिह तन्नोदितं मया ॥ २५।।
इति ज्योत्पत्तिः ।
उत्ता संक्षेपतः पूर्वं ज्योत्पत्तिः सुगमा च सा ।
सविशेषाधुना तत्र विशेषाद्विवृणोम्यतः ।। १ ।।
वा० भा०-तत्र तावदाचार्याणां पदवीमित्यादि श्लोकपञ्चकं सुगमम् । अत्र गणितेन ज्याज्ञानार्थ मूलभूतज्याचतुष्कसिद्धप्रकारमेवाह। तत्प्रकारो हि बीजगणितक्रियया । त्रिज्यार्ध राशिज्येत्यादि । त्रिज्यार्धेन १७१९ तुल्या त्रिंश ३० दंशानां ज्या भवति । तस्याः कोटिज्या षष्टि ६० भागानाम् । त्रिज्यावर्गार्धपदं पञ्चचत्वारिंशदंशानां ४५ ज्या भवति ॥ अथ त्रिज्यावर्गात् पञ्चगुणात् त्रिज्याकृतिवर्गपञ्चधातस्य मूलेन* हीनादष्ट ८ हृतात् पदं षट्त्रशदशानां ज्या ॥ अथवा गजहयगजेषु ५८७८ निघ्नी त्रिज्यायुतेन १०००० भनफा षद्त्रदंशानां ज्या स्यात् ॥ इति गणितलाघवम् । तत्कोटिज्यार्थाच्चतुष्पञ्चाशदंशानां ज्या । तथा त्रिज्यावर्ग:स्य पद्ध्वगुणस्य मूलं त्रिज्याहीनं चतुर्भत सदष्टादशभागानां ज्या भवति । तत्कोटिज्यार्थात् द्विससतिभागानाम् । अतोऽन्यथा साधनमाह—क्रमोत्क्रमज्येत्यादि । कोटिज्योना त्रिज्या भुजस्योत्क्रमज्या स्यात् । भुजज्योना त्रिज्या कोटद्युत्क्रमज्या स्यात् । भुजक्रमज्योत्कमज्ययोश्च वर्गीयोगपददलं भुजांशानामर्धस्य ज्या स्यात् । अथवा त्रिज्योत्क्रमञ्ज्याघातांदलस्य मूलं तदर्धाशकशिञ्जिनी स्यादिति क्रियालाघवम् । एवमुत्पन्नज्याया अपि कोटिज्या सा तत्कोटिभागानाम् । ततः पुनरेवमन्यास्तदर्धाशकज्याः साध्याः ॥ कोटेश्चैवमन्याः ॥ तद्यथा । यत्र चतुविशतिज्र्यास्तत्र त्रिज्यार्धमष्टमं ८ १. सिद्धान्तक्रोडसंगृहीतः बाप्पूदेवोक्तोऽत्र विशेषः— कार्मुकयोः कोटिज्याघातौ ज्याघातहीनसंयुक्तौ । त्रिज्याभक्तौ तद्धनुरैक्यान्तरकोटिमौविके भवतः । २. पश्वगुणितस्य त्रिज्यावर्गवर्गस्य मूलेनेत्यर्थ: ।