पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/566

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R सिद्धान्तशिरोमणौ गोलाध्याये वा० वा०-शिष्यधीवृद्धिदे तन्त्रे लल्लेन यो महापातसाधनोपायोऽभिहितः सोऽयुक्त इति प्रतिपादनाथं पातसंभवासंभवगतैष्यवैपरीत्यं तदुक्तमार्गेणात्र भवतीत्युदाहरणानि प्रश्नव्याजेनाह-तिग्मांशुचन्द्री किलेति । युक्तायनांश इति । असम्भव इति । भागोनयुक्तमिति । यातेऽपि पाते क्वचिदिति । अत्र विपातचन्द्र इति यदुक्तं तत्तत्तन्त्राभ्यासवशादिति स्पष्टम् । इदं पाताधिकारभाष्ये स्पष्टं निरूपितम् ॥ ५३-५७ । - इदानों सिङ्गून्तमूषनकालमाहु रसगुणपूर्णमही १०३६ समशकनृपसमयेऽभवन्ममोत्पत्तिः । रसगुण ३६ वर्षेण मया सिद्धान्तशिरोमणी रचितः ॥ ५८ । । इदानीं विद्वज्जनानुनयादनौद्धत्यप्रतिपादनद्वारेणात्मनः प्रागल्भ्यं प्रार्थयन्नाहगणितस्कन्धसंदभोंऽदभ्रदर्भाग्रधीमतः' । ra O उचितोऽनुचितो यन्मे धाष्टर्ये तत् क्षम्यतां विदः ॥९९।। वा० भा०- गणितस्कन्धस्य संदभ नाम रचनाविशेषः । असावदभ्रदर्भागधीमतः । मूलप्रदेशादुपरि यानि पुष्टानि दीर्घाणि दर्भपत्राणि असावदभ्रदर्भस्तस्याग्र यथा तीक्ष्ण तथा यस्य मतिस्तीक्षणा अभेद्यमपि प्रमेयं भित्त्वान्तः प्रविशति तथाविधस्य गणितस्कन्धप्रबन्ध उचितः । अनुचितो मे तथापि कृतः । तद्धाष्टर्धं हे विद्वज्जना गणकाः ।। क्षम्यताम् ॥५९॥ इदानीमाझदूषणापराध परिहरनाहये वृद्धा लघवोऽपि येऽत्र गणका बद्ध्वाञ्जलिं वच्मि तान्। क्षन्तव्यं मम तैर्मया यदधुना पूर्वोक्तयो दूषिताः । कर्तव्ये स्फुटवासनाप्रकथने पूर्वीतिविश्वासिनां तत्तद्द्षणमन्तरेण नितरां नास्ति प्रतीतिर्यतः ।। ६० ।। वा० भा०-स्पष्टार्थम्।६०1 वा० वा०-अथ ग्रन्थसमाप्तिकरणकाल स्वोत्पतिकालकथनपूर्वक वदतिरसगुणपूर्णमहीसमशकनृपसमये भवन्ममोत्पतिरिति। विनयादाह—गणितस्कन्धसन्दर्भ इति । तच्चापयुक्तोनितयुक्तहीनः पदक्रमेण व्ययनांशपातः । चक्राच्च्युतोऽसावयनांशहीनः पृथक् सषड्भोऽयनसन्धियुग्मम् ॥ निशापतेस्तत् खलु गोलसन्धिविश्लेषितं स्पष्टपदं विधोः स्यात् । पूर्वैरनुक्तं यदिदं मयोक्तं तस्यैकहेतुस्तु गुरूपदेशः । १. दर्मगर्भाग्रष्धीमत इति पाठान्तरं क्वचित् पुस्तकेषुपलभ्यते तथाप्याचार्यकृते एतच्छलोक व्याख्याने तथाविधार्थादर्शनेऽपि कथं पाठान्तरकल्पनेत्यत्र मूलं मृग्यम् ।