पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/531

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८९
प्रशन्नध्यायः

 अत्र पक्षयोरित्युपलक्षणं तेन पक्षाणां साम्यं विधायानेकवर्णसमीकरणोचितसमशोधनेनैकस्य वर्णस्योन्मितीना बहुत्वे ।

 समीकृतच्छेदगमे तु ताभ्यस्तदन्यवर्णोन्मितयः प्रसाध्याः ।

 अन्त्योन्मितौ कुट्टविधेर्गुणाती’ ‘विलोमकोत्थापनतोऽन्यवर्णमानानोत्यादिबालैरपि बुद्धयते । यत्रानेकवणींतप्रकारेण तुल्यशोधने कृते पक्षस्यैकस्योत्तवद्वर्गमूले च गृहीते द्वितीयपक्षस्य वर्गमूलं वर्गप्रकृत्या गृह्यते तयोः समीकरणविधिना राशिज्ञायते तदनेकवर्णसम्बन्धिमध्यमाहरणम् ।

 भावितमधिकृत्य पक्षसमीकरणं यत्र तद् भावितम् । भावितसूत्रोपपत्तिः क्षेत्रगता राशिगता चाचार्येरेवोत्ता बीजे । भावितमपि नियतानि यत राशिप्रतिपादकत्वात् । द्विविधम् । अनेकवर्णतन्मध्यमाहरणयोरनियता एव राशयः समायान्ति । कुट्टकवर्गप्रकृतिमूलकत्वात्तयोः एकवर्णतन्मध्यमाहरणयोविषयीभूतानि यत राशय एव|एकवर्णविषयाण्यप्युदाहरणान्यनेकवर्णबीजादप्यानीयन्ते तथापि तानि नानेकवष्णविषयाणि ॥ व्यक्तगणितविषयाण्यव्यक्तगणितदिव ।

 अन्यथा विषयसाङ्कर्यापत्तिरित्याहुः । तेन बीजोपपत्तिः स्पष्टैव । यावत्प्रमाणं गतेन्दुयुराशिरिति सिद्धम् । कल्पचान्द्र: कल्पसावनानि तर्देभिः किमिति गताहर्गणी भवतीति ततः सावनाख्य इत्युक्तम् ।

 अत्रोदाहरणमाह-ये याताधिकमासहीनदिवसा इति ॥ १०-१२ ।।

 इवानीं महाप्रश्नमाह-

चक्राग्राणिगृहाग्रकाणि च लवाग्राणि ग्रहाणां पृथग्यानि
स्युः कलिकाग्रकाणि विकलाग्राणीह धीवृद्धिदे ।
चन्द्रार्कारगुरुज्ञभार्गवचलच्छायासुतानां तथा
पूर्वं सिद्धमहर्गणागमविधौ न्यूनाहशेषं च यत् ॥ १३ ।।
षट्त्रंशत् सहितानि तानि कुदिनैस्तष्टानि दृष्ट्राग्रकाण्याचप्टे
स्फुटकुट्टके पटुमतिः खेष्ट्रान् दिनौघं च यः ।
तं मन्ये गणिताटवीविघटनप्रौढिप्रमताखिल
ज्योतिर्वित्करिकुम्भपीठलुठनप्रोत्कण्ठकण्ठीरवम् ॥ १४ ।

अथास्य भङ्गः---  उहिषतम् कह' १५७७९१७५०० तष्टमम्बुधिहृतं शुध्येन्न चेत् तत् खिलं


१.अत्र लल्ल:- व्योमाभ्रबाणतुरगक्षितिनन्दर्शलक्ष्माभृच्छिलीमुखभुवः १५७७९१७५०० क्षितिवासराः स्युः ॥ पूर्णाभ्रसायकशिलोच्चयरामदास्रद्वीभेषुशीतकिरणा १५८२७३७५०० भपरिभ्रमाः स्यु।   शि० धी० ग्र० मध्य० ८ श्लो०।

सि०-६२