पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/505

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६३
यन्त्राध्याय:

 बा० भा०-४।११।१७।।१८॥१३।५ एतानि खण्डकानि निरक्षदेशे पलकर्णगुणानि । द्वादशभक्तानि स्वदेशे भवन्ति । पञ्चदशभिः पञ्चदशभिर्भागेरेकैकं लभ्यते । एवं तैः खण्डकः सायनशाकद्भुजज्या साध्या । सा षष्टिभक्ता पलकणयुता ततो दशगुणा चतुर्भक्ताङ्गलात्मिका यष्टिर्भवति । सा यष्टिः पट्टिकायां सुषिरद्दया । यष्टिमितान्यङ्गलानि पट्टिकायां रन्ध्रादारभ्य गणयित्वाग्रे चिह्नं कार्यमित्यर्थः ।

 अत्रोपपत्तिः—*अत्र सुषिरोपरि या ज्यारेखा सा मध्यरेखेति ज्ञातव्या । इह किल दृङ्म डल्ाकारे धूते यन्त्रे कीलच्छाया यत्र परिधौ लगति तन्मध्यरेखयोरन्तरे य उन्नतभागास्तेषा ज्योन्नतज्या । मध्यरेखाछाययोर्मध्ये यावन्त्यङ्गलानि तावत्युन्नतज्येत्यर्थ । सैवेटकले शडूः । स एव पलकर्णगुणो द्वादशहुत इष्टहृतिः स्यात् । सा त्रिज्यागुणा द्युज्यया भक्तेष्टान्त्यका स्यात्। अथ त्रिज्योत्तरगोले चरज्यया युता दक्षिणे हीना सत्यन्त्या स्यात् । अन्त्याया इष्टान्त्यकोनाया यच्छेष सा नतकालस्योत्क्रमज्या स्यात् । अतस्तस्या उत्क्रमचापे कृते नतकाली ज्ञायत इति किल गोले कालज्ञानवासना । इदं धूलीकर्म यन्त्रादेवोपसंहर्तु यष्टिः कृता। तत्र तावद्राश्यर्धे भुजे द्युज्या ३४१८ । राशी ३३६६ । सार्धे राशी ३२६२ । राशिद्वये ३२१८ ॥ साधंराशिद्वये ३१६१ । राशित्रये ३१४१ । यदा किल द्वादशाङ्गुलशङ्कुस्त्रिज्यया गुण्यत आभियुंज्याभिः पृथक् पृथगविभज्यते तावत् सर्वत्र द्वादशnङ्गलानि लभ्यन्ते। अधो वेदा इत्यादीनि व्यङ्गलानि । उपरितनान् द्वादश परित्यज्यैषामेवान्योऽनुपातः ॥ एतान्येव स्वदेशे पलकणंगुणनि द्वादशहृतानि पञ्चदशभागलभ्यानि खण्डकानि कल्पितानि । तै: खण्डके: सायनांशाकस्य भुजज्या व्यङ्गलात्मिका भवति । अतः षष्टयुद्धृता । इयमक्षकर्णेऽतो योज्या । यतो य उपरि त्यता द्वादश ते यावदक्षकणेन गुण्यन्ते द्वादशभिविभज्यन्ते तावदक्षकर्ण एव लभ्यते। एवं द्वादशाङ्गलस्य शङ्कोरिष्टान्त्या जाता । इयं धूलीकमपसंहारार्थ त्रिशदङ्गुलस्य शङ्को: परिणामिता तत्रानुपातः । यदि द्वादशाङ्गुलस्येयं तदा त्रिशदङ्गुलस्य केति। अत्र गुणकभाजकी त्रिभिरपवक्त्यं गुणकस्थाने दश १० भागहार चत्वारः ४ कृताः । एवमनुपातेन शङ्कोरिष्टान्त्या यष्टिसंज्ञा भवतीत्यर्थः । यदि त्रिशच्छङ्कोर्यष्टिमितेष्टान्त्या तदेष्टशङ्कोः कियतीति । एवमिष्टशङ्कुयष्ट्या गुण्यस्त्रिशता भाज्यः । फलमिष्टान्त्येति स्थितम् । तदर्थ सा यष्टिः पट्टिकायां दत्ता तदग्रे चिह्नं च कृतम् ॥२३-२४॥


१. अत्र गणेशदैवज्ञः---

व्यक्षेऽर्काङ्गलशङ्कजाहृतिरिनास्त्रिज्याहता द्युज्यया
साऽन्त्या स्यादिर्तिं भार्धजाः षडमुतोऽकन्प्रोझ्या शेषाण्यध: ।
प्रोझ्याब्ध्यादिकखण्डषट्कमिनहूत् स्वाक्षश्रवोघ्नं पुरे
स्वे स्यादुत्क्रमतोऽक्षकर्णयुगिनास्त्यक्ता निरक्षे यतः ।
शङ्कौ द्वादशकेऽन्तिकेयमुदिता यन्त्रोत्रतांशज्यका
शङ्कौ किं यदि यन्त्रजोन्नतगुणे त्रिशच्छ्रुतिस्तत्र किम् ॥
यष्टिः स्यातू फलमत्र मध्यगुणयटयग्रान्तरन्त्या ततो
यष्टयग्रादधरोध्र्वदत्तचरजज्यास्पृग्द्युवृत्ते नतम् ॥