पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/5

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रस्तावनाः सम्पूर्णानन्दसंस्कृतविश्वविद्यालयेन सरस्वतीभवनस्थानां महत्वपूर्णानामप्रकाशितानां पाण्डुलिपीनां मुद्रणाय तथा दुर्लभानां मुद्रितग्रन्थानां पुनः प्रकाशनाय चैका योजना .. पञ्चमपञ्चवर्षीययोजनायां विश्वविद्यालयानुदानायोगसमक्षं प्रेषिताऽऽसीत् । अायोगेन , च नियोजितस्य निरीक्षकमण्डलस्य संस्तुतिमनुसृत्यं प्रकाश्यमानग्रन्थानां महत्तां · चोररीकृत्य स्वीकृतिः प्रदत्ता । अस्यां प्रक्रियायां वर्षद्वयं व्यतीतम् । अवशिष्टाया योजनावधेरल्पत्वात्, अत्रत्यप्रकाशनविभागे कार्यबाहुल्यात्, योजनायाश्च सरस्वतीभवन द्वारा प्रस्तुतत्वात् कार्यस्य शीघ्रमेव सम्पादनार्थ कुलपतिना निम्नाङ्किताना विश्वविद्यालयीयविदुषामेका समितिर्निर्मिता । अध्यक्षः प्रो० बदरीनाथशुक्लः ( कुलपतिः ) ।। सदस्याः । १—प्रो० जगन्नाथोपाध्यायः ( पालिविभागाध्यक्षः श्रमणविद्यासंकायाध्यक्षश्च ) २—श्रीव्रजवल्लभद्विवेदः ( योगतन्त्रागमविभागाध्यक्षः) । - ३-डॉ० भागीरथप्रसादत्रिपाठी 'वागीशः शास्त्री' (निदेशकः अनुसन्धान ) ४—श्रीबलिरामशास्त्रो भारद्वाजः ( उपपुस्तकाध्यक्षः, हस्तलिखितानुभागे ) ५—श्रीजनार्दनपाण्डेयः ( सरस्वतीभवनस्थः ) ६—श्रीलक्ष्मीनारायणतिवारी ( ग्रन्थाध्यक्षः, समितेः संयोजकः ) संयोजवस्य श्रीलक्ष्मीनारायणतिवारिणः सततप्रयत्नेन अनया समित्या प्रकाशनाहँग्रन्थानां चयनम्, तेषा सम्पादनव्यवस्था, मुद्रणव्यवस्था च तत्परतया सम्यक् प्रारब्धT । । अस्यामेव योजनायां प्रकाश्य प्रस्तूयतेऽयं सिद्धान्तशिरोमणिग्रन्थो वासनाभाष्यवात्तिकसहितः ।