पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/499

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५७
यन्त्राध्याय:

दृश्यते । मत्स्यस्तु सम्पूर्णहोरात्रमानेनैकवारं भ्रमति । त्रयोदशतारकासु स्थूले समसूत्रगे ये तारके ते ध्रुवमुखपुच्छतारकत्वेन प्रसिद्ध । मुख्यध्रुवस्य मुखतारकया भागत्रयमन्तरं पुच्छतारकया त्रयोदशांशतुल्यम् । मुखपुच्छतारकयोरन्तरं षोडशभागात्मकम् । पुच्छमुखतारे यदा पूर्वेदिग्विभागे तदा सायनभरणीश्रुवकस्थानं तत्सषड्भस्थानं च सदा सर्वत्र क्षितिजे लगतीति नियमव्यञ्जकमुपलभ्य ध्रुवभ्रमयन्त्रं कृतम् । ताम्रादिधातुमयमायतमिष्टं भवति । केन्द्राद्यन्त्रविस्तृतिव्यासं प्रथमवृत्तं तदन्तः ससवृत्तानि केन्द्रादिष्टव्यासार्द्र: सम्पादनीयानि ।

 यन्त्रं चतुर्दिगङ्कं कृतपूर्वापरयाम्योत्तररेखञ्च कार्यम् । ऊर्ध्वरेखाप्रथमवृत्तसम्पातादीषदुपरि दोर्घ पूर्वापरचिह्न तथा कार्य यथा ध्रुवमुखपुच्छतारके युगपद्धेधरन्ध्रान्तर्भवेतामेवं धूते यन्त्रे प्राक् चञ्च्वग्रलग्नं सायनलग्नं निरन्तरं स्यात्। प्रथमवृत्तान्तराले ऊध्वरेखात आकृतिनाडिकातो नाडिका लेख्याः । द्वितीयवृत्तान्तराले भगणांशास्तृतीये निरक्षोदयवशेन कृतत्रिशदंशाः निरक्षोदया लेख्याः । षष्ठे स्वीयोदयवशेन कृतत्रिशदंशा द्वादशराशयो लेख्याः । चतुर्थे निरक्षोदयराशिनामानि । पञ्चमे कृतायनदृक्कर्मकाः सायना नक्षत्रध्रुवकाः । सप्तमे स्वोदयनामानि तन्निकटे कृताक्षदृक्कर्मका ध्रुवका लेख्याः । तद्यन्त्रमध्ये समान्तरचत्र्चुचतुष्ट्यं दिक्चतुष्ट्यसूत्रलग्नमिष्टव्यासं कार्यम् । चञ्चुत्रयदैर्घ्यमेवं सूत्र्यग्रं कार्यम् । प्राक्चञ्च्वकाग्रं निजभोदयाप्तं मध्यनिरक्षे त्वपरं घटीषु स्यात् । चतुर्थचञ्चुरिष्टप्रमाणः स लम्बः कार्यः । एवं भावचतुष्टयज्ञानम् । प्राक्चञ्चौ सायनसषड्भरवौ लापिते तदपरयुतनाडीचिह्नतो वेधकालीनापरचञ्चुनाडीचिह्न यावद्रात्रिगतघटिकाः भवन्ति ।

 प्रकृतमनुसरामः । अत्र यन्त्राद्वेधेन ये उन्नतांशास्ते तु भूपृष्ठस्थक्षितिजादूर्ध्वमागता । अपेक्षिताः कालादिज्ञानार्थं भूगर्भस्थक्षितिजादूर्ध्वम् । तेन-

‘स्वभुक्तितिथ्यंशविवजितोना महान् लघुः खाग्निकृतांशहीनः' ।
इति स्फुटशङ्कसाधनवैपरीत्यादुन्नतांशाः साध्याः । अन्यथा कालादिसाधनं सान्तरं स्यात् । सर्वस्य ग्रहगणितजातस्य भूगर्भकेन्द्रमुररीकृत्यैव प्रवृत्तत्वात् ।

 यन्त्रराजाख्यमिदं यन्त्रं देशभेदात् कालभेदाच्च विसदृशनिर्माणमिति भास्कराचार्यंनौंतम् । अक्षांशवशेनोन्नतांशवलयविसदृशत्वमयनांशवशेन भपत्रे भचत्र्चुस्थापनविसदृशत्वमिति च यन्त्रराजविसदृशत्वमेव सिद्धम् । देशकालाविसदृशगोलयन्त्रप्रतिपादनेन यन्त्रराजप्रतिपादनचारिताथ्र्यातन्नोत्तमिति वा । तस्माद्देशकालाविसदृशं यच्चक्रयन्त्र तदेवाचार्यरुक्तम् । 'पित्र्यक्षपुष्पान्तिमवारुणानामित्यनेनाकाशस्थक्रान्ति' वृत्तानुकारि चक्रयन्त्रं कारितम् ॥'

 नेमिस्थदृष्टयेति स्पष्टग्रहज्ञानं कृतम्। यन्त्रराजादिछाया यन्त्रेभ्य: सायनग्रहा एवायान्ति । अमुष्माच्चक्रयन्त्रादाकाशस्थरेवतीयोगतारकतो ग्रहो निरयन एव भवति। अत्रकाड्युनतांशानां दिनाद्धोंन्नतांशावधिकानां स्वस्वदेशीयेष्ठदिनार्द्धवशेन घटिका आनीय पत्रेषु लेख्याः । तादृशपत्राणि पलांशादेकादेकोनपञ्चाशत्पलांश विषयावधिमूहूयन्रुग्रं यावत्कार्याणि । महाराष्ट्रेस्तानि भागपत्राणीति व्यवह्रियन्ते ।

 सि०-५८