पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/498

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५६
सिद्धान्तशिरोमणी गोलाध्याये

 एवं कृते यानि प्रमाणानि तानि विगणय्य ग्राह्याणि । तेषां त्रिज्योत्थवृत्तेऽक्षपत्रवत्कृतवृत्ते परिधौ यावद्धनुरंशास्ते शीघ्रफलांशा वेद्याः । एवं मन्ददोः फलानामेव तद्वृते धनुरंशा मन्दफलांश: भवन्ति । एवं जिनज्योत्थवृत्ते सायनांशग्रहभुज दत्वा यज्ज्यार्द्धं भवति तस्याक्षांशवत्कृतवृत्ते धनुरंशा मन्दफलांशाः भवन्ति । एवं जिनज्योत्थवृत्ते सायनांशग्रहभुजं दत्त्वा यज्ज्यार्द्धं भवति तस्याक्षांशवत्कृत इत्ते धनुरंशाः क्रान्त्यंशाः । एवं चन्द्रपरमशरज्यातो वृत्तं कार्यं तेन चन्द्रशरांशज्ञानं क्रान्त्यंशवत् ॥

 एवं त्रिज्योत्थवृत्तेऽक्षपत्रवत्कृतवृत्ते भौमादिसपातमन्दस्पष्टभुजज्या वेद्या । सा स्वस्वपरमशरगुणा शीघ्रकर्णभक्ता शरः स्यात् । एवं कुशाग्रबुद्धयो यन्त्रादेव दशाधिकारगणितमानयन्ति ।

 वामनसुतचक्रधरेण त्रिशज्जीवायुक्ततुरीययन्त्राद् त्रिशदङ्कयुक्तपट्टीयुक्तात् सपखांशसूर्याजूलैः कृतक्रान्तिवृत्तात् सम्पादिताष्टादशजीवायां सम्पादितसाद्धसप्तविंशत्यङ्कात्कृतैस्वषष्टद्यंशयुक्ताक्षभाग्रात् सलम्बसूत्रात् कृतकर्णद्वयसम्पादितच्छिद्रद्वयात् खार्द्धक्षतिजभूमिकृतसङ्केतात् सर्वमप्यानीतम् । एततुरीयन्त्रस्य यन्त्रचिन्तामणिरिति नामकृतम् ।

अत्र यत्क्रान्तिवृत्तं तद्भुजाग्रस्थपटयोः युतिज्याग्रतोऽग्रेऽपमांशाः भवन्ति ।
स्वषष्ट्यंशयुक्ताक्षभाग्रे तु केन्द्राज्यका तद्युताकाँऽपमांशस्थपटयाः'।
भुजाग्रस्थपटच्यंकसतज्यकाग्रावधि स्याच्चर तज्यका चाङ्गलानि।
बहिः खाच्चरमन्तश्च मेषतुलारसभस्थसायनरवौ क्रमेण देयम् ॥
अष्टादशीया जीवा चाङ्गलाङ्कास्ति तस्यामक्षप्रभा देया तदग्रस्थकेन्द्रावलम्बात् ।
पल वा कुर्जे वा नभो लम्बभागास्तयोरुत्क्रमज्या क्रमज्ये च वेद्यो ।
पलांशा यमाशोत्क्रमञ्ज्या युतिः कौ प्रदेया कुजात् तज्ज्यकाग्रे द्युपट्टी ।।
ज्ञेया दक्षिणगोले युतिरुत्तरगोलेऽन्तरमक्षांशापमांशोत्क्रमजीवयोर्युतिशब्देनोच्यते ।

  • केन्द्रोर्ध्वरन्ध्रेण यथाऽर्कतेजः क्ष्माजोध्वरन्ध्रप्रं प्रविशेत् तथा धृते । यन्त्रचिन्तामण्ौं

धार्य च केन्द्रादवलम्बभागज्या टुग्ज्यका स्यान्नर्ताशजिनी वा ।
नतज्यकास्पृक् दिनपट्टिकाङ्कश्चरज्यया हीनयुतश्च कार्यः ।।
तदङ्कतुल्यक्षितिमौविकाग्रं चरार्द्धतश्चोन्नतनाडिकाः स्युः ।
तदग्रं नता नाडिका क्ष्माजत: स्युविलोमाथ तज्ज्या चरज्योनयुक्ता।
द्युपट्यास्तदडून सत्ताज्यकाग्रे,रवं कल्पयेच्छडूभागा: स्वमर्कातू॥
इति चक्रधरेण कालादिज्ञानं युक्तियुक्तमुक्तम् ।

 ध्रुवभ्रमयन्त्राद्रात्रिगतघटीज्ञानं लग्नादिभावचतुष्टयज्ञानं नार्मदात्मजपद्मनाभेनोक्तम्। ध्रुवतारका स्थिरैवास्ति । तस्यास्त्रयोदशतारकाभिर्मत्स्य इव प्रकल्पितो-


१. यन्त्रचि० ६ श्लो० ।   २. यन्त्रचि० ८-१० श्लो० ।